________________
घटते कश्चिदाम्नायः, शुद्धोऽस्मिन्निःसमाकृतौ । इति ध्यायन्नृपस्तस्मै, सादरं तामदीदृशत् ॥ २३९॥ आडम्बराणि पूज्यन्ते, स्त्रीषु राजकुलेषु च । विमृश्यैवं च तत्र प्राक्, स नानाडम्बरं व्यधात् ॥ २४०॥ तदौषधीरसेनाथ, विषावेगं निरस्य सः । तां सद्यो जीवयामास, हृदि हृष्टश्च तत्पिता ॥ २४१॥ न ज्ञायते कुलाद्यस्येतीषद् हृदि विषादभाग् । वाग्बद्धोऽथ ददौ तस्मै, स राज्यार्द्धयुतां कनीम् ॥ २४२ ॥ पुत्रो विनयपालस्य, रत्नपालः पराक्रमी । नूनं राजाधिराजोऽयं,केनचिद्धेतुनैककः ॥ २४३॥ भट्टैरित्युपलक्ष्योक्ते, बलवाहनभूमिभुम् । स्थाने पुत्री प्रदत्तेति,सुतरां मुमुदे हृदि ॥ २४४॥ रत्नवत्या समं पल्या, विलसन्पञ्चधा सुखम् । अप्याप्तातुलराज्यश्री, रत्नपालोऽथ भूपतिः ॥ २४५॥ विश्वासद्रोहमाचीर्णं, सचिवेन दुरात्मना । तमुत्कीर्णमिव स्वान्ते, व्यस्मा(न्नहि कर्हिचित् ॥२४६॥युग्मम्॥ यदुक्तम्- . "मृगेण दत्तां किं लत्तां, विस्मरेज्जातु केसरी । यत्तां स नूनं समये, सव्याजां वालयिष्यति" ॥ 24॥ इतश्चान्यूनसैन्येन, सहितः समये नृपः । तममात्यब्रुवं जेतुं, चचाल स्वपुरं प्रति ॥ २४७॥ अन्यदाऽध्वनि कान्तारे, सैन्यमावास्य स स्थितः । निशीथे दूरतोऽश्रौषीदिव्यगीतध्वनिं वचित् ॥ २४८॥
૨૭