________________
यदुक्तम्"उपकृत्योपकार्येषु, ये भवन्त्यर्थिनः पुनः । तेषु मन्ये मनुष्यत्वं, विधेर्वार्द्धकविक्रिया" ॥ 23॥ नृपायाऽनिच्छतेऽप्येवं, कृतज्ञः स खगो बलात् । औषधीवलयं सर्वविषावेगाऽपहं ददौ ॥ २२९॥ अथानुज्ञाप्य स नृपं, सप्रियः स्वपुरेऽगमत् । क्ष्मापालः पुनरुत्तीर्णः, शैलशृङ्गाच्छनैः शनैः ॥ २३०॥ मूलस्थानपुरेऽथाप्तो, दीनानाथकुटीस्थितम् । नृपो वैदेशिकश्राद्धं, भृशं ग्लानं व्यलोकत ॥ २३१॥ दिनत्रयं नृपेणैष,करुणार्द्रहृदा तदा । . शुश्रूषितो धर्मबुद्ध्या, नानापथ्यौषधादिभिः ॥ २३२॥ . स कारिताऽखिलप्रान्तपुण्यकृत्योऽथ भूभुजा । समाहितमना मृत्वा, दिवि देवो महानभूत् ॥ २३३॥ रत्नपालोऽथ नृपतिः, प्रभाते प्रविशन्पुरेः । पटहोद्घोषणामेवं, श्रुतवान् राजवर्त्मनि ॥ २३४॥ भो मन्त्रतन्त्रादिविदो ! बलवाहनभूभुजः । अद्य रत्नवती पुत्री, दष्टा दुष्टाहिना निशि ॥ २३५॥ कृतैर्नानाप्रतीकारैरप्यजातगुणा च सा । । निश्चेष्टा मरणावस्थां, साम्प्रतं समुपेयुषी ॥ २३६॥ यः कश्चिजीवयत्येतां, मन्त्रतन्त्रौषधीबलैः । । तस्मै राज्यार्द्धसंयुक्तामेतां दत्ते स भूपतिः ॥ २३७॥ तदैवागण्यकारुण्यनैपुण्यानिःस्पृहोऽपि सः । जगाम पटहस्पर्शद्वारेण मापसंसदि ॥ २३८॥ .
- २६ .