________________
तद्वन्धान् कृपया च्छित्वा, सोऽथाप्राक्षीत्तमानतम् । कोऽसीत्थं केन बद्धश्च, कस्मादिति वद स्फुटम् ॥ २१८॥ सोऽप्येवमाख्यद्वैताढ्ये, पुरे गगनवल्लभे । वल्लभो नाम राजास्ते, विद्याभृद्वलभिद्बलः ॥ २१९॥ अहं तदङ्गजन्माऽस्मि, नाम्ना हेमाङ्गदः सखे ! । नन्दीश्वरे जिनान्नन्तुं यानभूवं प्रियायुतः ॥ २२०॥
खेटोऽत्र राक्षसीविद्याबलोन्मत्तोऽमिलत्पथि । प्रियामहार्षीत्प्रसभं, मां निबध्याऽधुनैव सः ॥ २२१॥ प्राणप्रद !, जगद्वीर! तत्साहाय्यं सृजाऽधुना । जित्वाऽरातिं तमाप्नोमि,यथा प्राणेश्वरीमहम् ॥ २२२॥ इत्थमर्थयते यावद्रत्नपालं स खेचरः । तावदागाद्यमाकृष्ट, इव तत्र स राक्षसः ॥ २२३॥ परस्त्रीलुब्ध ! पापिष्ठ !, स्मर स्वाऽभीष्टदैवतम् । शास्ता दुरात्मनामद्य, रत्नपालस्तवाऽमिलत् ॥ २२४॥ इत्युक्त्वा.योधितः खड्गाखड्गि स क्ष्माभुजा चिरम् । घराजितश्च भीतात्मा, जीवग्राहं स नष्टवान् ॥ २२५॥ इत्थं हेमाङ्गदस्यार्थं, गिराऽनुक्त्वैव सोऽकरोत् । ब्रुवते हि फलेनैव, साधवः सोपयोगिताम् ॥ २२६॥ हृष्टो हेमाङ्गदोऽथाप्य, पत्नीमित्यब्रवीनृपम् । किं कुर्वेऽद्य तवाभीष्टं, निर्निमित्तोपकारिणः ॥ २२७॥ तदाख्यद्रनपालोऽपि, न मे किञ्चिद्विलोक्यते । सप्रियः स्वपुरे गत्वा, चिरं भुङ्क्ष सुखं सखे! ॥ २२८ ।। . १. यान् गच्छन्, अभूवं आसम् । २. 'अवाप्य' इत्यपि ।
-
२५
-