________________
भाग्यभ्रष्टस्य वा पुंसो, भक्तिमन्तोऽनुजीविनः । किं विदध्युरिवाऽन्धस्य, ज्योतिष्मन्तोऽर्यमादयः? ॥ २१२॥ प्राच्यकर्माऽनुभावेन, सम्पदो विपदोऽपि वा । सम्पद्यन्ते स्वयं पुंसां, न त्वन्यस्माद्यदुच्यते ॥ २१३॥ : "सुखस्य दुःखस्य न कोऽपि दाता, परो ददातीति कुबुद्धिरेषा। पुरा कृतं कर्म तदेव भुज्यते, त्वं जीव! हे! निस्तर यत्त्वया कृतम्
॥19॥ तथा"सुखदुःखानां कर्ता, हर्ता न च कोऽपि कस्यचिजन्तोः। इति चिन्तय सद्बुद्धया, पुराकृतं भुज्यते कर्म" ॥20॥ सम्प्रत्यभाग्योपनतां, तद्भुङ्गे दुर्दशामिमाम् ।। पश्चात्कर्मानुकूल्ये तु, सर्वं साध्वेव भावि मे ॥ २१४॥ यत:“छिन्नोऽपि रोहति तरुः, क्षीणोऽप्युपचीयते पुनश्चन्द्रः । इति विमृशन्तः सन्तः, परितप्यन्ते न विधुरेऽपि" ॥ 21॥ . प्राच्यताक्सुखाभोगे, दुःखापाते च तादृशे । आसीत्सत्त्वभृतस्तस्य, समानैव मुखच्छविः ॥ २१५॥ यदुक्तम्"उत्सवव्यसनयोः प्रभुर्विधिर्विक्रियासु महतामनीश्वरः । पश्यतामुदयमेति यादृशस्तादृशस्तरणिरस्तमीयते" ॥ 22॥ अथोत्थाय स पल्यङ्काद्वीक्षमाणोऽभितो वनम् । आलोक्यैकं महाशैलं, तत्रारोहच्छनैः शनैः ॥ २१६॥ स तत्र कौतुकाक्षिप्तः, पश्यन्नथ वनश्रियम् । नरं निबद्धमैक्षिष्ट, द्रुमूले सुन्दराकृतिम् ॥ २१७॥
-- २४ -