________________
इतश्च यस्यां वेलायां, रत्नपालः स सुप्तवान् । तस्यां प्रबुद्धः परितो, महारण्यमलोकयत् ॥ २०२॥ मर्त्यप्रचाररहितं, गहनं विविधद्रुमैः । अथ श्वापदसङ्कीर्णं, तद्वीक्ष्यैवमचिन्तयत् ॥ २०३॥ पश्याम्येतं किमु स्वप्नमिन्द्रजालमिदं नु वा ? । कश्चिद्वा सम्प्रति मतिव्यामोहोऽयं ममाऽपतत् ॥ २०४॥ यन्नानामङ्गलातोद्यबन्दिस्वनमनोहरः । स्वःस व ममावासः, सर्वेन्द्रियसुखः क्व सः? ॥ २०५॥ क्वैतत्स्थानं यमस्थानमिवाऽत्यन्तभयावहम् ? । काकोलोलूकभल्लुकास्तोककोलाहलाऽऽकुलम् ॥ २०६॥ राज्यलोभेन वा जाने, सचिवेन दुरात्मना । . ईदृग्दुःखमहाम्भोधौ, विश्वस्तः पातितोऽस्म्यहम् ॥ २०७॥ सुप्तस्योत्सङ्गमारुह्य, ममाद्यामोटितं गलम् । तेनं कृत्ता वरत्रा वा, हा ! क्षिप्त्वा मां महाऽवटे ॥ २०८॥ भक्ता मम कमायाता, दानसम्मानसत्कृताः । राज्यप्रधानपुरुषाः, कथं तेनात्मसात्कृताः? ॥ २०९॥ सदा सन्तोष्यमाणा वा, द्रविणैर्मुखमार्गितैः । अङ्गरक्षानियुक्तास्ते, कथं विघटिता मयि ? ॥ २१०॥ सर्वो वाऽनुगतो लोकः, पुंसः सम्पदमीयुषः । तस्यैव त्वापदापत्तौ, सम्बन्ध्यपि भवेत्परः ॥ २११॥ यदुक्तम्"सम्पदि परोऽपि निजतां, निजोऽपि परतामुपैति विपदि जनः। ताराभिर्तियते निशि, रश्मिभिरपि मुच्यतेऽह्नि शशी" ॥18॥ 1. अथवा तो !! तेना व भने भोटवामां नमीने होरी अपी नाs.
• २3