________________
तत्त तत्र पुरे गत्वा, क्षमयामि महासतीम् । भावी वज्राग्निवच्छापो, दुःसहोऽद्यापि सोऽन्यथा ॥ १९१॥ अथ तत्र पुरे गत्वा, पतित्वा पादयोश्च सः । प्रादुष्कुर्वन् स्वदुर्वृत्तं, पश्चात्तापावतप्तहृत् ॥ १९२॥ नृपपौरजनाध्यक्षं, क्षमयामास तां सतीम् । ततस्तदुक्तस्तरणिः, समयेऽस्तं समासदत् ॥ १९३॥ युग्मम्॥ तयाऽनुनीतया शापान्मुक्तः सोऽथ नभश्चरः ।। तानरातीन् क्रमाज्जित्वा, भेजे राज्यश्रियं पुनः ॥ १९४॥ इति सत्योऽनुभावाढ्याः, कुशलैः कुशलार्थिभिः । आराध्यन्ते सदा स्वामिन् !, विराध्यन्ते तु न क्वचित् ॥ १९५॥ हिताऽनुशास्ति सुहृदस्तां श्रुत्वा जयभूपतिः । अभूच्छृङ्गारसुदाँ, प्रशान्तहृदयो मनाक् ॥ १९६॥ तादृग्विडम्बनातोऽथ, विमुक्ता जयभूभुजा । आचामाम्लतपस्तेनेऽनुदिनं सा पतिव्रतां ॥ १९७॥ पक्षमासोपवासाद्यं, सा सदाऽप्यन्तरान्तरा । तप्यते स्म तपस्तीवं, निरपेक्षा वपुष्यपि ॥ १९८॥ स्नानाऽङ्गरागसंस्कारसद्वस्त्रऽलङ्कृती: सदा । वर्जयन्ती जिनेन्द्राऽानिरता भुवि साऽस्वपीत् ॥ १९९॥. भर्तुर्वियोगं राज्यश्रीभ्रंशं चाऽतीव दुःखदम् । स्मरन्ती हृदि सा मर्तुमीहते स्म महासती ॥ २००॥ मेलिष्यति तव प्रेयान्, राज्यमाप्स्यति चाऽचिरात् । । इति नैमित्तिकोक्त्या तु, साकाङ्क्षा प्राणिति स्म सा ॥ २०१॥