________________
स विद्यादथ प्रोचे, सम्प्रत्यस्ति दिनं परम् । रात्रावेत्य हरिष्ये त्वां यद्भाव्यं तद्भवत्विति ॥ १८० ॥ साऽपीत्याख्यन्मदुक्तोऽद्य, रविरस्तं प्रयास्यति । दुष्टाकूतोऽथ विद्याभृत् स यावत्स्वपुरं ययौ ॥ १८१॥
तावदुत्पन्नहृच्छूलस्तस्याकस्मान्मृतः सुतः । अश्वेभं च मृतं तावत्किञ्चित्किञ्चिद्गतं क्वचित् ॥ १८२ ॥ धनधान्यमणिस्वर्णरूप्यकुप्यादिवस्तुभिः ।
पूर्णं वज्राग्निना तावत्, तद्वेश्म ज्वलितं द्रुतम् ॥ १८३॥ अकस्मात्केचिदज्ञाताश्चतुरङ्गबलान्विताः । तावत्सपत्नास्तत्रेयुर्निःसपत्नपराक्रमाः ॥ १८४ ॥ देशदुर्गादि तैस्तस्य, प्रसह्यागृह्यताऽखिलम् । एवं दिनत्रयेणाऽभूज्जनमात्रं नृपोऽपि सः ॥ १८५ ॥ दुःखादुपरि हा ! दुःखं, किमेतन्मे नवं नवम् । विषाद्राद्विस्मयाच्चेत्थं स यावद्ध्यायति क्षणम् ॥ १८६ ॥
".
तावत्खेटस्तमाहैकः, स्वामिन्नाश्चर्यमद्भुतम् ।
दृष्टं नन्दीश्वरद्वीपादद्याऽत्रागच्छता मया ॥ १८७॥ पुरे रत्नपुरे नाऽस्तं, रविर्यात्यादिनत्रयात् । राज्ञा तदर्थं कार्यन्ते, शान्तिकादीनि सर्वतः ॥ १८८॥ तच्छ्रुत्वा चकितश्चित्ते, सोऽध्यासीदिति खेटराट् । वचसैषा ह्यभूत्तस्याः, सर्वाऽप्याश्चर्यसन्ततिः ॥ १८९॥ हा ! हा ! विरूपमाचीर्णं, दुर्वृत्तेन मया तदा । महानुभावा यद्दर्पात्कोपिता सा महासती ॥ १९० ॥
1. पशु व्यञ्जनानां सि. ३- १. थी समाहार द्वन्द्व
૨૧