________________
तस्याश्चैवं हठारूढः, स शठः स्वेष्टसिद्धये । नैकप्रकारा विदधे, मासमेकं कदर्थना: ॥ १६८॥ प्राणेभ्योऽप्यधिकं शीलं मन्यमाना परं न सा । मनसाप्यस्खलच्छुद्धसदाचाराध्वनो मनाक् ॥ १६९॥ इतश्च कुशलः कश्चिद्वयस्यस्तस्य भूभुजः । अनुशास्तिमिति प्रादात्, परिणामहितां रहः ॥ १७० ॥ शुद्धशीलानुभावेन, महासत्यो महीपते ! । स्थलयन्त्याशु जलधिं, स्थलं जलधयन्ति च ॥ १७१ ॥ ज्वलनं जलयन्त्येता, जलं ज्वलनयन्ति च । शैलं वल्मीकयन्त्याशु, वल्मीकं शैलयन्ति च ॥ १७२ ॥ रक्षोयक्षोरगव्याघ्रान् दमयन्ति दुरात्मनः ।
स्वचक्रं परचक्रं च, स्तनन्त्यागंच्छदेव वा ॥ १७३॥ कुपिताः कर्हिचिच्चैताः, शापदानेन सत्वरम् । सपुत्रभ्रातृकं भूपमपि कुर्वन्ति भस्मसात् ॥ १७४॥ स्वामिन्निहार्थे दृष्टान्तं, शृणु रत्नपुरे पुरे. । सार्थेशधनसारस्य, धनश्रीः समभूत्प्रिया ॥ १७५ ॥ तामन्यदा गवाक्षस्थां, रूपसौभाग्यशालिनीम् । विद्याभृन्नृपतिः पापप्रकृतिः कश्चिदैक्षत ॥ ९७६ ॥ रागान्धः प्रार्थयामास, स तां चाटुशतैस्तदा । वचस्तस्य सती सा तु नान्वमंस्त मनागपि ॥ १७७॥ स्मरापस्मारतो मूढमना विद्याबलेन सः । अथ तस्याः सदाचारध्वंसाय यतते यदा ॥ १७८ ॥ पाप्मन् ! पुत्रसप्ताङ्गराज्यश्रीक्षयमाहि । इति शापमदात्तस्मै, तदा सा कुपिता सती ॥ १७९ ॥
२०