Book Title: Ratnapal Nrup Charitram Author(s): Yogtilaksuri, Dharmtilakvijay Publisher: Smruti Mandir PrakashanPage 51
________________ नराणां निर्जराणां च तदेत्यासन् गिरोऽभितः । सर्वानाश्चर्यमेकोऽपि, खेचरान्भूचरोऽभ्यभूत् ॥ ३३७ ॥ ताभिः पराभिभूताश्च तेऽभूवन्दुःखिता भृशम् । उच्च्छास्यमानाः शस्त्रीभिर्युधीव पतिता भटाः ॥ ३३८ ॥ रत्नपालोऽपि विद्वेषिजयश्रियमिवाङ्गिनीम् । सौभाग्यमञ्जरीं कन्यां, पाणौ चक्रे महामहैः ॥ ३३९॥ दत्ता हेमाङ्गदेनात्मप्राच्यप्रीत्या च भूरिशः । विद्या: प्रज्ञप्तिगौर्याद्याः साधयामासिवान् नृपः ॥ ३४० ॥ वैताढ्यस्योभयोः श्रेण्योर्जित्वा सर्वनभश्चरान् । प्रावर्त्तयत्पुनः स्वाज्ञां, सिद्धविद्यः स भूमिभुग् ॥ ३४१॥ विविधप्राभृतश्रेणीसम्भृतश्रीस्ततोऽथ सः । ताभिः प्रियाभिस्तिसृभिः सहितः सुहिताशयः ॥ ३४२ ॥ निषेव्यमाणो विद्याभृद्वीरैर्हेमाङ्गदादिभिः । दिव्यं विमानमारूढः, प्राप्तः स्वनगरं सुखम् ॥ ३४३ ॥ गजापहारादारभ्य, दुःखदाहार्दिताः प्रजाः । स्वदर्शनसुधावृष्ट्या, सद्यो ऽशीतलयच्च सः ॥ ३४४॥ परिच्छेदस्तृतीयः , - " प्रतापतपनः प्राप्तं, प्राच्यपुण्यैः पचेलिमैः । निःसपत्नमथ प्राज्यं, राज्यं पालयतीति सः ॥ ३४५ ॥ अथ च कथामपूर्वामाश्चर्यभूतां यः कथयेत्पुमान् । तस्मै दत्ते सुवर्णानां दश लक्षाः स निश्चितम् ॥ ३४६ ॥ ૩૬Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106