Book Title: Ratnapal Nrup Charitram
Author(s): Yogtilaksuri, Dharmtilakvijay
Publisher: Smruti Mandir Prakashan

Previous | Next

Page 23
________________ . यदुक्तम्"सर्वत्र ददतो दातुः, पात्रयोगोऽपि सम्भवेत्। वर्षन् क्षारार्णवेऽप्यब्दो, मुक्तात्मा क्वापि जायते" ॥ 10॥ शुद्धं सकृदपि प्रत्तं, सत्पात्रे श्रद्धया ध्रुवम् । कल्पतेऽनल्पलाभाय, स्वल्पमप्यचिरान्नृणाम् ॥ ५१॥ यदुक्तम्"व्याजे स्याद् द्विगुणं वित्तं, व्यवसाये चतुर्गुणम् । कृषौ शतगुणं प्रोक्तं, पात्रेऽनन्तगुणं पुनः" ॥ 11॥ इतिहासेऽप्युक्तम्"बह्वप्यश्रद्धया दत्तं, नष्टमाहुर्मनीषिणः । वार्यपि श्रद्धया दत्तमानन्त्यायोपकल्पते" ॥ 12॥ . तत्त्वार्थिभिः पुनः सम्यक्, पात्रापात्रविवेचकैः । निश्चित्यैव गुणैः पात्रं, श्रद्धादानं विधीयते ॥५२॥ दत्ते पुनः कुपात्रेभ्यः, श्रद्धादाने विवेकिभिः । तदीयदुश्चरित्राणां, कृतं स्यादुपबृंहणम् ॥ ५३॥ देयं सर्वत्र दीनादौ, दयादानं तु तैरपि । सानिषिद्धं यत्सर्वजनीनैस्तन्नहि क्वचित् ॥ ५४॥ रुच्यैः कृषिर्यथोत्कृष्टा, क्षेत्रबीजाम्बुदाऽनिलैः । विफला मध्यमा वा स्याद्, व्यपायेऽन्यतरस्य तु ॥ ५५॥ दानं तथोत्तमं पात्रवित्तभावानुमोदनैः । विफलं मध्यमं वा स्याद्, व्यपायेऽन्यतरस्य तु ॥ ५६॥ श्रद्धया निहितं दानं, सत्पात्रे समये नृभिः । शुक्तौ स्वाताविवाऽब्देन, वारि स्यान्मौक्तिकश्रिये ॥ ५७॥ १. प्रदत्तम् ।

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106