________________
.
यदुक्तम्"सर्वत्र ददतो दातुः, पात्रयोगोऽपि सम्भवेत्। वर्षन् क्षारार्णवेऽप्यब्दो, मुक्तात्मा क्वापि जायते" ॥ 10॥ शुद्धं सकृदपि प्रत्तं, सत्पात्रे श्रद्धया ध्रुवम् । कल्पतेऽनल्पलाभाय, स्वल्पमप्यचिरान्नृणाम् ॥ ५१॥ यदुक्तम्"व्याजे स्याद् द्विगुणं वित्तं, व्यवसाये चतुर्गुणम् । कृषौ शतगुणं प्रोक्तं, पात्रेऽनन्तगुणं पुनः" ॥ 11॥ इतिहासेऽप्युक्तम्"बह्वप्यश्रद्धया दत्तं, नष्टमाहुर्मनीषिणः । वार्यपि श्रद्धया दत्तमानन्त्यायोपकल्पते" ॥ 12॥ . तत्त्वार्थिभिः पुनः सम्यक्, पात्रापात्रविवेचकैः । निश्चित्यैव गुणैः पात्रं, श्रद्धादानं विधीयते ॥५२॥ दत्ते पुनः कुपात्रेभ्यः, श्रद्धादाने विवेकिभिः । तदीयदुश्चरित्राणां, कृतं स्यादुपबृंहणम् ॥ ५३॥ देयं सर्वत्र दीनादौ, दयादानं तु तैरपि । सानिषिद्धं यत्सर्वजनीनैस्तन्नहि क्वचित् ॥ ५४॥ रुच्यैः कृषिर्यथोत्कृष्टा, क्षेत्रबीजाम्बुदाऽनिलैः । विफला मध्यमा वा स्याद्, व्यपायेऽन्यतरस्य तु ॥ ५५॥ दानं तथोत्तमं पात्रवित्तभावानुमोदनैः । विफलं मध्यमं वा स्याद्, व्यपायेऽन्यतरस्य तु ॥ ५६॥ श्रद्धया निहितं दानं, सत्पात्रे समये नृभिः । शुक्तौ स्वाताविवाऽब्देन, वारि स्यान्मौक्तिकश्रिये ॥ ५७॥
१. प्रदत्तम् ।