________________
शास्त्रान्तरेऽप्युक्तम्"हे! शील ! चन्द्रकरलील ! भवाम्बुराशिनिस्तारणोडुप! तपः! शृणु भावने ! त्वम् । एकस्य सिद्धिरभवद्भवतां प्रसादाद्, दानात्तु दातुरपरस्य च मुक्तिमार्गः" ॥9॥ अरक्तद्विष्टमनसः, सर्वज्ञस्य मुखाम्बुजात् । निशम्य सम्यगाधिक्यमिति दानस्य यौक्तिकम् ॥ ४३॥ हीणा मात्सर्यमुत्सृज्य, धर्माः शीलादयस्त्रयः । तत:स्म बहु मन्यन्ते, दानं न्यस्यात्मनो धुरि ॥ ४४॥ युग संयोगारोग्यसद्भोगभाग्यसौभाग्यसम्पदाम् । दानं निदानं सर्वज्ञैरत्रामुत्र च वर्ण्यते ॥ ४५ ॥ इयर्ति स्फूर्तिमतुलां, कीर्त्तिर्दानेन सर्वतः । आस्ये प्रशस्या दीप्तिश्च, दानेनोदयिनी नृणाम् ॥ ४६॥ आसतां स्वजना दूरे, प्राच्यप्रेमवशीकृताः । . दानेनावर्जिता मूर्ना, विद्विषोऽपि वहन्त्यपः ॥ ४७॥ भूतानि प्रतिकूलानि, निखिलान्यपि तत्क्षणात् । वशीभवन्ति दानेन, दूरितोत्सर्पिपाप्मना ॥ ४८॥ दुर्वारा दुरितव्राताः, प्रोद्भूताः प्राच्यकर्मभिः । प्रायः पुंसां प्रणश्यन्ति, दानप्रतिहतौजसः ॥४९॥ गुणानपेक्षं सर्वत्र, मुग्धैस्तद्देयमन्वहम् । क्वापि सत्पात्रमप्येवं, यन्मेलिष्यति कर्हिचित् ॥ ५०॥
1. 'युत्तिथी घटी शर्ड तयु'