________________
विरताऽविरतभ्रातृद्वयवृत्तनिदर्शनात् । प्रामाण्यं मम सर्वत्र, क्रियायास्तु न हि क्वचित् ॥ ३३॥ इत्थं दानादयो धर्माः, स्वस्वमाहात्म्यगर्विताः । विवदन्तो मिथः प्रापुः, पार्श्वे तीर्थकृतः प्रभोः ॥ ३४॥ समानदृष्टिः सर्वत्र, वीतरागः स सर्ववित् । विवादं भङ्कमिति तान्, स्वोपज्ञं न्यगदत्तदा ॥ ३५ ॥ सकृदेकैकपर्यायग्राहिणी वाग् नयः स्मृतः । । प्रमा तु युगपत्नैकवस्तुधर्मावलम्बिनी ॥ ३६॥ नया ह्यन्योन्यसापेक्षाः, सर्वज्ञैः सुनया मता: । : अन्योन्यमत्सरक्षीणविषया दुर्नयाः पुनः ॥ ३७॥ : जोगे जोगे जिणसासणम्मि दुक्खक्खया पउज्जन्ते । इक्किक्कम्मि अणन्ता, वट्टन्ता केवली जाया .॥8॥ इति प्रत्येकमप्यत्र, प्राप्य मोक्षाङ्गतां समे । . मिथो मत्सरमालम्ब्याऽधुना मा भूत दुर्नयाः ॥ ३८॥ प्रायः सत्पात्रसश्रद्धदानाच्छीलाच्च निर्मलात् ।। नैकेऽपि तपसस्तीवात्सद्भावाच्च शिवं गताः ॥ ३९॥ न्यूनाधिकत्वं चान्योन्यमथ चेज्ज्ञातुमिष्यते । शृणुताऽवहितीभूय, तदपि ज्ञापयामि वः ॥ ४०॥ शील! चन्द्रकरोन्मीलदतिनैर्मल्यलील! हे!। निर्निदान! तपस्तीव्रभावने! चाघनाशिनि! ॥४१॥ एकस्यैव भवेन्मुक्तिर्युष्मदाराधनाद् ध्रुवम् । दानात्प्रदातुश्चादातुर्द्वयोः स्पष्टमिहेक्ष्यते ॥ ४२॥ युग्मम् ॥
१. "योगे योगे जिनशासने दुःखक्षयाय प्रयुज्यमाने ।
एकैकस्मिन् अनन्ता वर्तमाना: केवलिनो जाता:" ॥ इति च्छाया ।