________________
यदुक्तम्-.. “भरिऊण जलं जलया, जस्स पभावेण उन्नई पत्ता । तस्सेव पुणो उवरिं, गजन्ता किं न लज्जन्ति" ॥6॥ यथात्मानं विना कायो, यथा पुष्पं फलं विना । विनाम्भश्च सरो यूयं, तथा सर्वाणि मां विना ॥ २७॥ यदन्यत्राप्युक्तम्"घनं दत्तं वित्तं जिनवचनमभ्यस्तमखिलं, क्रियाकाण्डं चण्डं रचितमवनौ सुप्तमसकृत्... । तपस्तप्तं तीव्र चरणमपि चीर्णं चिरतरं, न चेच्चित्ते भावस्तुषवपनवत्सर्वमफलम्" ॥ 7॥ निबध्य निबिडैः पाशैर्मोहेन भवचारके । क्षिप्तोऽपि भरतश्चक्री, मयैवामोच्यत क्षणात् ॥ २८॥ मुख्यं मोक्षाङ्गमासाद्य, मामाद्यभगवत्प्रसूः । पूर्वमप्राप्तधर्मापि, क्षणान्मोक्षमुपेयुषी ॥ २९॥ आषाढभूतिः कपटी, भ्रष्टोऽपि ब्रह्मवानः ।। प्रापितः परमब्रह्म, निरुध्यान्यगतीमया ॥ ३०॥ कर्मभिः कपिवद् वंशे, नव॑मानः स रागहृत् । प्रापेलातीसुतः सद्यो, मच्छुद्धया ज्ञानमुज्ज्वलम् ॥ ३१॥ मदीयाशुद्धिशुद्धिभ्यां, बन्धमुक्ती नृणां क्षणात् । अत्र प्रसन्नचन्द्रर्षिः, स्पष्टमिष्टो निदर्शनम् ॥ ३२॥
चारक ।
१. "भृत्वा जलं जलदा यस्य प्रभावेण उन्नतिं प्राप्ताः । तस्यैव पुनरुपरि गर्जन्तः किं न लजन्ते" ॥ इति च्छाया ।