Book Title: Ratnapal Nrup Charitram
Author(s): Yogtilaksuri, Dharmtilakvijay
Publisher: Smruti Mandir Prakashan

Previous | Next

Page 21
________________ विरताऽविरतभ्रातृद्वयवृत्तनिदर्शनात् । प्रामाण्यं मम सर्वत्र, क्रियायास्तु न हि क्वचित् ॥ ३३॥ इत्थं दानादयो धर्माः, स्वस्वमाहात्म्यगर्विताः । विवदन्तो मिथः प्रापुः, पार्श्वे तीर्थकृतः प्रभोः ॥ ३४॥ समानदृष्टिः सर्वत्र, वीतरागः स सर्ववित् । विवादं भङ्कमिति तान्, स्वोपज्ञं न्यगदत्तदा ॥ ३५ ॥ सकृदेकैकपर्यायग्राहिणी वाग् नयः स्मृतः । । प्रमा तु युगपत्नैकवस्तुधर्मावलम्बिनी ॥ ३६॥ नया ह्यन्योन्यसापेक्षाः, सर्वज्ञैः सुनया मता: । : अन्योन्यमत्सरक्षीणविषया दुर्नयाः पुनः ॥ ३७॥ : जोगे जोगे जिणसासणम्मि दुक्खक्खया पउज्जन्ते । इक्किक्कम्मि अणन्ता, वट्टन्ता केवली जाया .॥8॥ इति प्रत्येकमप्यत्र, प्राप्य मोक्षाङ्गतां समे । . मिथो मत्सरमालम्ब्याऽधुना मा भूत दुर्नयाः ॥ ३८॥ प्रायः सत्पात्रसश्रद्धदानाच्छीलाच्च निर्मलात् ।। नैकेऽपि तपसस्तीवात्सद्भावाच्च शिवं गताः ॥ ३९॥ न्यूनाधिकत्वं चान्योन्यमथ चेज्ज्ञातुमिष्यते । शृणुताऽवहितीभूय, तदपि ज्ञापयामि वः ॥ ४०॥ शील! चन्द्रकरोन्मीलदतिनैर्मल्यलील! हे!। निर्निदान! तपस्तीव्रभावने! चाघनाशिनि! ॥४१॥ एकस्यैव भवेन्मुक्तिर्युष्मदाराधनाद् ध्रुवम् । दानात्प्रदातुश्चादातुर्द्वयोः स्पष्टमिहेक्ष्यते ॥ ४२॥ युग्मम् ॥ १. "योगे योगे जिनशासने दुःखक्षयाय प्रयुज्यमाने । एकैकस्मिन् अनन्ता वर्तमाना: केवलिनो जाता:" ॥ इति च्छाया ।

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106