Book Title: Ratnapal Nrup Charitram Author(s): Yogtilaksuri, Dharmtilakvijay Publisher: Smruti Mandir PrakashanPage 24
________________ महाण्यासतां खाद्याऽशनस्वाद्यानि सर्वथा । सत्पात्रे समये दत्तमम्भोऽपीष्टार्थसिद्धये ॥ ५८॥ तृषार्तेषु यथा भीष्मग्रीष्मौ शुद्धसाधुषु । दत्तं नीरमभूद्रत्नपालस्याऽद्भुतसम्पदे ॥ ५९॥ परिच्छेदो द्वितीयः तथाहि-अस्तीह भरतक्षेत्रे, पुरं पाडलिपुत्रकम् । पुरुहूतपुरस्पर्द्धि, समृद्धिसुषमास्पदम् ॥ ६०॥ हित्वा सहानवस्थानविरोधं प्रथितं मिथः । यत्र लक्ष्मीसरस्वत्यौ, प्रीत्या पौरेषु खेलतः ॥ ६१॥ पश्यन् स्निग्धदृशा सर्वा, निजापत्यमिव प्रजाः । षण्णवत्या नृपगुणैरजितोजितसद्यशाः ॥ ६२॥ प्रतापतपनस्तत्र, त्रासिताऽखिलशात्रवः । भूपालो विनयात्पालः, समभूद्भरिविक्रमः ॥ ६३॥ युग्मम् ॥ माररूपः कुमारोऽस्य, कुमारातुलविक्रमः । रत्नपाल: कुलव्योमोद्योतप्रद्योतनोऽभवत् ॥ ६४॥ द्वासप्ततिकलाशाली, कामकेलिवनं क्रमात् । यौवनं युवतिप्रीतिजननं भजति स्म सः ॥ ६५॥ वीरसेनस्य भूभर्तुः, पुरे हंसपुरेऽन्यदा । पुत्र्याः शृङ्गारसुन्दर्याः, स्वयंवरणमण्डपे ॥६६॥ रूपसौभाग्यभाग्याद्यैर्गुणैः सर्वत्र विश्रुतः । ससैन्यः पितुरादेशाद्भूताहूतो जगाम सः ॥ ६७॥ युग्मम् ॥ 1. 'समृद्धिने ॥२५॥ सुषम(मीठो मारी) नुं स्थान 2. A४०il1- साथ नही २३॥ २५३५ विरोधने छन.. १. कुमारः कार्तिकेयः।Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106