Book Title: Ratnapal Nrup Charitram Author(s): Yogtilaksuri, Dharmtilakvijay Publisher: Smruti Mandir PrakashanPage 25
________________ अन्येऽपि भूभुजस्तत्र, महोत्साहा महौजसः । स्वस्वसैन्यैः सहाऽजग्मुर्दूताऽऽहूताः सहस्रशः ॥ ६८॥ शुभेऽह्नि सदलङ्काराः, सर्वा सपरिच्छदाः । निषेदिवांसस्तत्रैत्य, मञ्चोन्मञ्चेषु ते पुनः ॥ ६९॥ चतुःषष्टिकलादक्षा, शुभसर्वाङ्गलक्षणा । स्वयंवरस्रजं पाणौ, बिभ्रती स्वसखीवृता ॥ ७०॥ सा तत्राऽद्भुतशृङ्गारं, कृत्वा शृङ्गारसुन्दरी । आगमत् त्रिजगजैत्री, शक्तिर्मूर्तेव मान्मथी ॥ ७१॥ युग्मम्॥ अथ तस्याः पुरोभूय, प्रतीहार: पटिष्ठवाग् । प्रत्येकं तान् नृपानूचे, नामवंशादिकीर्तनैः ॥ ७२॥ तथाहिअयं काशीश्वरः सुभ्र !, सूरसेन: पराक्रमी । त्रिस्रोतःस्रोतसि स्वैरं, यः खेलति मरालवत् ॥ ७३॥ श्रूयन्ते काशिवास्तव्या, वञ्चनाचञ्चवो नराः । इत्युक्तिमात्रात्काशीशे, सा विरागमसूचयत् ॥ ७४॥ बलिष्ठोऽयं मधूपघ्नपतिर्मधुरवाग्मधुः । एतं(नं) वृणीष्वेत्यवदत्प्रतीहारोऽथ तां पुनः ॥ ७५॥ कालियाहेरिव विषैर्विनीलं यामुनं जलम् । वृन्दावनं च यत्क्रीडास्थानं तस्योच्यतेऽथ किम् ॥ ७६॥ उपहासगिरेत्यस्मिन्, ज्ञातेऽथाऽरुचिते पुनः । प्रतीहारः कङ्कणानामित्यधीशमवर्णयत् ॥ ७७॥ १. गङ्गापूरे ।Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106