Book Title: Ratnapal Nrup Charitram
Author(s): Yogtilaksuri, Dharmtilakvijay
Publisher: Smruti Mandir Prakashan

Previous | Next

Page 33
________________ शिक्षामदादिति स्नेहात्परिणामहितां पुनः । दण्डनीया दुरात्मानः, पालनीयाश्च साधवः ॥ १४७॥ यदुक्तम्"दुष्टस्य दण्डः सुजनस्य पूजा, न्यायेन कोशस्य च सम्प्रवृद्धिः। अपक्षपातो रिपुराष्ट्ररक्षा, पञ्चैव यज्ञाः कथिता नृपाणाम्॥17॥ अविश्वास्याः श्रियं हृत्वा, कर्षणीयाः स्वनीवृतः । .. विश्वासार्हाः पुनर्वत्स !, प्रापणीयाः परां श्रियम् ॥ १४८ ॥ पुत्रा मित्राणि पितरौ, लोभन भ्रातरोऽपि वा । राज्येऽन्योन्यं निहन्यन्ते, तेनैतत्सुमलीमसम् ॥ १४९॥ . न विश्वसेदमित्रस्य, मित्रस्यापि न विश्वसेत् । इदं पद्यं विदन् वत्स !, मा कस्याप्यत्र विश्वसीः ॥ १५० ॥ सोऽथ संविग्नहत्कृत्वा,चैत्येष्वष्टाह्निकामहम् । दत्त्वा दानं च दीनादौ, जैनी दीक्षामुपाददे ॥ १५१॥ सुदुस्तपं तपस्तप्वा, स्वाध्यायाध्ययनोद्यतः । शुभध्यानाऽधिरूढात्मा, कालेऽभूत्स्वर्गसौख्यभाक् ॥ १५२॥ रत्नपालोऽथ भूपालः, प्रतापी पालयन्ग्रजाः । नैकाः स्वयंवरायाताः, परिणिन्ये नृपाङ्गजाः ॥ १५३॥ शृङ्गारसुन्दरीमुख्याः, पत्न्यस्तस्याऽभवन्क्रमात् । सहस्रं रूपसौभाग्यलावण्यललितश्रियः ॥ १५४॥ जयनाम्नि महामात्ये,राजनीतिविदप्यसौ । राज्यभारं निवेश्याऽथ, कृत्वा दुग्धमिवौतुसात् ॥ १५५॥ निश्चिन्तः पञ्चधा कामभोगान्भुतेऽतिशायिनः । नित्यमन्तःपुरगतः, खेलन्सुखसुधाम्बुधौ ॥ १५६॥ युग्मम्॥ १. बिडालाधीनम् ।

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106