Book Title: Ratnapal Nrup Charitram Author(s): Yogtilaksuri, Dharmtilakvijay Publisher: Smruti Mandir PrakashanPage 32
________________ स्वं निःसत्त्वतया तैस्तैः, सत्फलैर्वञ्चितं तदा । मन्यमानाः स्वदुर्दैवमेवाऽनिन्दन् विषादिनः ॥ १३८ ॥ युग्मम्॥ इत्थं पाणिग्रहमहप्रत्यूहे प्रलयं गते । वीरसेननृपो हृष्टः, सुलग्ने सुमहोत्सवम् ॥ १३९॥ रूपसौभाग्यलावण्यैः, स्मरेणेव वपुष्मता । रत्नपालंकुमारेण, तां कन्यामुदवाहयत् ॥ १४० ॥ युग्मम्॥ सत्याप्यमानः स्वजनैस्तथ्यैरातिथ्यकर्मभिः । रत्नपालः कियत्कालं, तत्राऽस्थाच्छ्शुरौकसि ॥ १४१ ॥ महातीर्थ इव स्थातुं, सुचिरं श्वशुरौकसि । न युज्यते हि महतां यन्महत्त्वक्षितिस्ततः ॥ १४२॥ यदुक्तम् - . "चिरं पितृगृहे स्त्रीणां, नराणां श्वशुरौकसि । वासश्चैकत्र यमिनां, नूनं हास्यास्पदं जने" || 16 ॥ महानुभावः स सुधीरिति सम्यग् विदन् हृदि । चलनोन्मुख एवास्थात्परं स्वनगरं प्रति ॥ १४३ ॥ ( अर्थतो विशेषकम् ) गजाश्वमणिमुक्ताद्यैः, क्ष्माभुजा सत्कृतोऽथ सः । समं शृङ्गारसुन्दर्या, ससैन्यः स्वपुरेऽगमत् ॥ १४४॥ परिणीयागतस्याऽस्य, पुरान्तः प्रवरोत्सवैः । प्रवेशं कारयामास, पिता प्रमुदिताशयः ॥ १४५ ॥ महौजसं महोत्साहमाकलय्य तमङ्गजम् । राज्ये न्यवीविशत्सोऽथ, मन्त्रिसामन्तसाक्षिकम् ॥ १४६ ॥ 1. विघ्न । ૧૭Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106