________________
स्वं निःसत्त्वतया तैस्तैः, सत्फलैर्वञ्चितं तदा । मन्यमानाः स्वदुर्दैवमेवाऽनिन्दन् विषादिनः ॥ १३८ ॥ युग्मम्॥ इत्थं पाणिग्रहमहप्रत्यूहे प्रलयं गते । वीरसेननृपो हृष्टः, सुलग्ने सुमहोत्सवम् ॥ १३९॥ रूपसौभाग्यलावण्यैः, स्मरेणेव वपुष्मता ।
रत्नपालंकुमारेण, तां कन्यामुदवाहयत् ॥ १४० ॥ युग्मम्॥ सत्याप्यमानः स्वजनैस्तथ्यैरातिथ्यकर्मभिः । रत्नपालः कियत्कालं, तत्राऽस्थाच्छ्शुरौकसि ॥ १४१ ॥ महातीर्थ इव स्थातुं, सुचिरं श्वशुरौकसि ।
न युज्यते हि महतां यन्महत्त्वक्षितिस्ततः ॥ १४२॥ यदुक्तम् - .
"चिरं पितृगृहे स्त्रीणां, नराणां श्वशुरौकसि । वासश्चैकत्र यमिनां, नूनं हास्यास्पदं जने" || 16 ॥ महानुभावः स सुधीरिति सम्यग् विदन् हृदि । चलनोन्मुख एवास्थात्परं स्वनगरं प्रति ॥ १४३ ॥ ( अर्थतो विशेषकम् ) गजाश्वमणिमुक्ताद्यैः, क्ष्माभुजा सत्कृतोऽथ सः । समं शृङ्गारसुन्दर्या, ससैन्यः स्वपुरेऽगमत् ॥ १४४॥ परिणीयागतस्याऽस्य, पुरान्तः प्रवरोत्सवैः । प्रवेशं कारयामास, पिता प्रमुदिताशयः ॥ १४५ ॥
महौजसं महोत्साहमाकलय्य तमङ्गजम् । राज्ये न्यवीविशत्सोऽथ, मन्त्रिसामन्तसाक्षिकम् ॥ १४६ ॥
1. विघ्न ।
૧૭