________________
इच्छोपनतसर्वाङ्गसुखसम्पत्तयः सुराः । यत्राल्पपुण्यैर्दुष्प्रापैः, प्राच्यं सत्कर्म भुञ्जते ॥ १२९॥ सर्वाङ्गीणसुखाभोगभाजो येऽत्र नृपादयः । यत्र सर्वजघन्यद्धैः, शतांशं प्राप्नुयु ते ॥ १३०॥ आवां हि सर्वद्रष्टव्याऽवधिं तं.वीक्ष्य ताविषम् । मन्वहे सफलं स्रष्टुर्दृष्टिसृष्टिश्रमं तदा ॥ १३१॥ . ईदृग्महर्द्धिमुदिता, अपि ते त्रिदशाः परम् । राजन् ! मर्त्यत्वमीहन्ते, नव्यपुण्यार्जनार्थिनः ॥ १३२॥ यदुक्तं श्रीमति स्थानाङ्गे"तेओ ठाणाई देवेहिं पीहिज्जा तं जहा माणुस्सगं भवं आरियखित्ते जम्मं सुकुलपच्चइअंजाइं" ॥ अथाऽसपत्नं सर्वोर्वीराज्यं वत्साऽप्नुहि ह्यमुम् । वरं प्रादाद्धरिस्तुष्टः, सर्वाङ्गालङ्कृतीश्च मे ॥ १३३॥ त्वमखण्डमवैधव्यं, शुद्धशीले सदाऽऽप्नुहि । आनन्द्येत्याऽशिषा चास्यै,शची स्वालङ्कृतीर्ददौ ॥ १३४॥ प्राग् निजापत्यविरहोऽद्भुतदुःखाऽनभिज्ञयोः । पित्रोर्दुःखमपीदानी, मा भूयुष्मद्वियोगजम् ॥ १३५॥ स वास्तोष्पतिरित्यऽन्यदुःखदुःखितहृत्पुनः ।। आवां हि प्रेषयत्क्षिप्रं, मर्त्यलोकेऽत्र सम्प्रति ॥ १३६॥ प्रवृत्तिमेतां परितः, पारम्पर्यात्प्रसारिणीम् । अत्याश्चर्यमयीं श्रुत्वा, नृपास्तेऽपि विरोधिनः ॥ १३७॥ १.. स्वर्गम्। २. “त्रिभ्यः स्थानेभ्यः देवा अपि स्पृहयेयुः। - तद्यथा मानुष्यकं भवं आर्यक्षेत्रे जन्म सुकुलप्रत्ययिकी जातिम्''! इति च्छाया । ३. इन्द्रः ।