________________
प्रज्वलय् चितां प्राप, वीरसेनोऽथ सद्मनि । विषादविस्मयापन्नाः, पौराश्चागुः स्ववेश्मसु ॥ ११८ ॥ अस्मद्धठादियं बाला, बालश्चायं मृतावुभौ । इति सानुशयाश्चाऽन्ये नृपाः स्वस्वपुरं ययुः ॥ ११९॥ अथ प्रेष्य द्वितीयेऽह्नि, रहस्तत्र नदीतटे । साराऽलङ्कारनेपथ्यौ, कुमारश्च कनी च तौ ॥ १२० ॥ रोदसी बधिरीकुर्वन्, विविधातोद्यनिःस्वनैः । सम्मुखं सपरीवारस्तत्र गत्वा स भूपतिः ॥ १२१ ॥ पट्टहस्तिनमारोप्य, हर्षोत्कर्षोल्लसन्मनाः । धृतच्छत्रावुभयतो वीज्यमानौ च चामरैः ॥ १२२ ॥
यथेच्छदानैरनृणीकुर्वाणः सर्वतोऽवनीम् । प्रावेशयत्पुरस्याऽन्तर्महैर्विश्वातिशायिभिः ॥ १२३ ॥ ( चतुर्भिः कलापकम् )
सदस्याञ्श्रावयन् सोऽथ, सदस्याप्तः ससंभ्रमम् । तमप्राक्षीन्निजोत्सङ्गे, निवेश्यं नृपनन्दनम् ॥ १२४॥ कथं वत्स ! युवां वह्निप्रविष्टावपि जीवितौ । दिव्यालङ्कारनेपथ्यावाप्तिरेषा कुतश्च वाम् ॥ १२५ ॥ तदा सोऽपीत्यवंग् राजन् ! शीलसत्त्वादिशालिनः । दाहात्माऽपि दहेदग्निर्देहिनो न हि कर्हिचित् ॥ १२६॥ निः समं सत्त्वमालोक्य, शीलं चाऽतीव निर्मलम् । आवयोस्तोषमभजत्सप्रियश्च दिवस्पतिः ॥ १२७॥ ज्वालाकरालाज्वलनात्ततस्तेनाऽपहृत्य नौ । आनाययत्सुरैः सद्यः स्वर्गं स गुणिवत्सलः ॥ १२८ ॥
"
१. पश्चात्तापतप्ताः । २. अकथयत् ।
૧૫