________________
कुर्वते हा ! हठारूढाः, परतेजोऽसहिष्णवः । वचोमात्रकृते शूरा, राष्ट्रकोशबलक्षयम् ॥ १०७॥ तथापि कलहं हित्वा, सत्त्वाढ्यः स मया समम् । काष्ठानि भक्षयत्वेत्य, यो मां परिणिनीषति ॥ १०८॥ तस्या वाचमिति श्रुत्वा, निवृत्ताः समरोद्यमात् । अन्योऽन्यं व्यमृशन्नेवं, विस्मितास्ते महीभुजः ॥ १०९॥ कोऽप्युपैति मृतो जातु, न महत्यपि पर्वणि । . जीवनिह पुमान् शस्तशतान्यानोति च क्रमात् ॥ ११०॥ सुखानि सर्वाङ्गीणानि, पुण्यैरद्यात्र सन्ति नः । ... स्त्रीमात्रार्थे मृतौ चात्महानिर्हास्यं जनेषु च ॥ १११॥ तन्नात्र मृत्या नः कार्यं द्रक्ष्यतेऽद्यात्मभिः परम् । कन्यार्थं म्रियमाणोऽयं, बालः कालकटाक्षितः ॥ ११२॥ ज्ञापयित्वाऽथ सङ्केतं, रत्नपालाय सा धिया । कृतौवस्ता त्रिदिनी, न्यवसत्सरितस्तटे ॥ ११३॥ तावत्स्थूलतरैः काष्ठेविरचय्य महाचिताम् । तत्राऽधोऽचीखनन्मन्त्री, सुरङ्गां स्वनरै रहः ॥ ११४॥ स्नात्वा दत्वाऽथ दीनेभ्यस्तेषु पश्यत्सु राजसु । सा कनी रत्नपालश्च, चितामविशतामुभौ ॥ ११५॥ हाहाकारं च कुर्वत्सु, पौरलोकेषु सर्वतः । ज्वालितो ज्वलनस्तत्र, पार्श्वस्थै राजपुरुषैः ॥ ११६॥ तेन नष्टाऽध्वना तावच्चितातस्तौ कनीवरौ ।। निर्गत्य द्वारमावृत्य, रहः प्राप्तौ नृपौकसि ॥ ११७॥ १. कृतोपवासा।
१४