________________
व्यवहारममुं सर्वसिद्धं ज्ञातवतां हि वः । रोषतोषौ न युज्येते, भाग्याधीनेऽत्र कर्मणि ॥ ९७॥ यदुक्तम्"अर्वाग्दृष्टितया लोको, यथेच्छं वाञ्छते प्रियम् । भाग्यापेक्षी विधिदत्ते, तेन चिन्तितमन्यथा" ॥ 15॥ इत्याख्यद्रनपालश्च, मयि कन्यावृतेऽद्य वः । मन्युर्न युज्यते किन्तु, दैवे दौर्भाग्यदायिनि ॥ ९८॥ विशिष्य विस्फुरत्कोपाटोपा: सर्वे नृपास्तदा । सद्यः सज्जीबभूवुस्ते,तं निहन्तुं कनीवरम् ॥ ९९॥ अथैवं व्यमृशच्चित्ते, वीरसेनो विषादभाग् । शान्तिकं कुर्वतां जाने, हा! वेतालोऽयमुत्थितः ॥ १००॥ हर्षस्थाने विषादो वा, क्षुतं वा भोजनक्षणे । मङ्गल्यपर्वण्येतस्मिन्, यद्रौद्रोऽयं रणागमः ॥ १०१॥ युग्मम्॥ इयं क़नी कुनक्षत्रा, कालरात्रिरिवाऽधुना । . संहर्तु, सुभटश्रेणीरवतीर्णा भुवि ध्रुवम् ॥ १०२॥ तदेत्य कालप्रलयं, तत्र वीक्ष्य स्वहेतुकम् । प्राच्यं स्वकर्म निन्दन्ती, सा प्रत्युत्पन्नधी: कनी ॥ १०३॥ किञ्चिद्विमृश्य स्वगतं, कथयित्वा च तद्रहः । चतुर्बुद्धिनिधानाय, सचिवाय सुबुद्धये ॥ १०४॥ निवर्तयन्ती तुमुलं, हस्तमुत्क्षिप्य दूरतः । अवोचत्स्पष्टवाचैवं, संरब्धान् सर्वभूभुजः ॥१०५॥( त्रिभिर्विशेषकम् ) खननीयो गिरिभूपाः, कर्षणीयश्च मूषकः । तद्वदीदृग् रणारम्भो, मदर्थं युज्यते न वः ॥ १०६॥