________________
तं कुमारं तदा वीक्ष्य, सा स्मेराक्षी स्मरोपमम् । मयूरीवोन्नतं मेघमतीव मुमुदे हृदि ॥ ८६॥ . नृपान्तरेषु भ्रमणाद्धृशं श्रान्तिमुपेयुषी । तस्मिन्सर्वगुणावासे, तस्या विश्राम्यति स्म दृग् ॥ ८७॥ सर्वराजेषु पश्यत्सु, वरमालामथाऽक्षिपत् । सा कण्ठे रत्नपालस्य, स्नेहेन प्राच्यजन्मनः ॥ ८८॥ पश्यतामियतां नोऽद्य, कुलशीलादिशालिनाम् । बालस्तन्या विलासोऽयं, चेत्कनी परिणेष्यते ॥ ८९॥ भावी नस्तजलोत्तारो, ध्यात्वेत्यन्ये नृपास्तदा । एकीबभूवुः सख्यं हि, समाने व्यसने भवेत् ॥ ९०॥ अथ तान् विकृतान्वीक्ष्य, वीरसेनः समं बलै । एत्य जामातृरक्षायै, सर्वतोऽवहितः स्थितः ॥ ११॥ तदेवोत्सर्पिमात्सर्या, निर्विचारहृदश्च ते । वीरसेनं विचारज्ञमित्याख्यन्नेकतः स्थिताः ॥ ९२॥ दद्या यदृच्छया राजन्नस्मादाच्छिद्य कस्यचित् । अस्मास्वन्यतरस्यैतां, गुणरत्नावनी कनीम् ॥ ९३॥ मणिमालामिवानहीं, बालां शृङ्गारसुन्दरीम् । रासभस्य न बालस्यामुष्य मृष्यामहे परम् ॥ ९४॥ वीरसेनस्तदेत्याख्यात्, प्रौढेरेव मनोरथैः । आयान्ति भूरिशो भूपाः, स्वयंवरणमण्डपे ॥ ९५ ॥ एक एवोद्वहेत्तेषु, प्राच्यपुण्येरितः कनीम् । अरुष्टाऽतुष्टमनसो, यान्त्यन्ये च यथागतम् ॥ ९६॥