________________
बलोऽयं बलवत्सीमा, यद्भिया किल जम्भजित् । छिनत्त्यद्यापि नाऽम्भोधि-निलीनाऽचलपक्षतीः ॥ ७८॥ साऽप्याऽऽख्यदिति तत्रत्या, नरा निष्कारणक्रुधः । शक्नोमि तदमुं रुष्टं, नानुनेतुं पदे पदे ॥ ७९ ॥ . यदुक्तम्"अकाण्डकोपिनो भर्तुरन्यासक्तेश्च योषितः । प्रसत्तिश्चेतसः कर्तुं, शक्रेणाऽपि न शक्यते" ॥ 13॥ प्रतीहारोऽथ दोःस्थामधामधैर्यादिभिर्गुणैः । गौडमालवकाद्यष्टदेशाधीशानवर्णयत् ॥ ८०॥ . गौडा: कार्यविचक्षणा बहुभुजो दुष्टा नरा मालवाष्टक्कस्वार्थपराः खसा जडधियो धूर्ता महाराष्ट्रजाः । लाटा: केवलवाक्प्रपञ्चचतुरा: क्रूराश्च कर्णाटजा, अन्तर्गृढनिबद्धवैरहृदयाः प्रायो नरा गौर्जराः ॥ ८१॥ तानपीत्यखिलान् सर्वगुणोपेतवरार्थिनी । देशसामान्यदोषोक्त्या, प्रत्युत्तरयति स्म सा ॥ ८२॥ एवं यं यं व्यतीयाय, क्षमापालं सा पतिंवरा । राहुम्रस्तेन्दुवच्छ्यामं, तस्य तस्याऽभवन्मुखम् ॥ ८३॥ यदक्तम्"संञ्चारिणी दीपशिखेव रात्रौ, यं यं व्यतीयाय पतिंवरा सा । नरेन्द्रमार्गाट्ट इव प्रपेदे, विवर्णभावं स स भूमिपाल:"॥14॥ अथेत्याख्यत्प्रतीहारः, पश्यन्नेत्राऽमृताञ्जनम् । रत्नपाल: कुमारोऽयं, कुमार इव विक्रमी ॥ ८४॥ सूनुर्विनयपालाह्वक्ष्मापालस्य परन्तपः । वृत्वा तदेनं सुभगं, जनुःसाफल्यमाप्नुहि ॥ ८५॥ १. रघुवंशस्थषष्ठ सर्गगगोऽयं श्लोकः; एतद् रचनावैचित्र्येणैव दीपशिखाकालिदास इति कालिदासस्य प्रसिद्धिः।
-- ११
.
-