SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ अन्येऽपि भूभुजस्तत्र, महोत्साहा महौजसः । स्वस्वसैन्यैः सहाऽजग्मुर्दूताऽऽहूताः सहस्रशः ॥ ६८॥ शुभेऽह्नि सदलङ्काराः, सर्वा सपरिच्छदाः । निषेदिवांसस्तत्रैत्य, मञ्चोन्मञ्चेषु ते पुनः ॥ ६९॥ चतुःषष्टिकलादक्षा, शुभसर्वाङ्गलक्षणा । स्वयंवरस्रजं पाणौ, बिभ्रती स्वसखीवृता ॥ ७०॥ सा तत्राऽद्भुतशृङ्गारं, कृत्वा शृङ्गारसुन्दरी । आगमत् त्रिजगजैत्री, शक्तिर्मूर्तेव मान्मथी ॥ ७१॥ युग्मम्॥ अथ तस्याः पुरोभूय, प्रतीहार: पटिष्ठवाग् । प्रत्येकं तान् नृपानूचे, नामवंशादिकीर्तनैः ॥ ७२॥ तथाहिअयं काशीश्वरः सुभ्र !, सूरसेन: पराक्रमी । त्रिस्रोतःस्रोतसि स्वैरं, यः खेलति मरालवत् ॥ ७३॥ श्रूयन्ते काशिवास्तव्या, वञ्चनाचञ्चवो नराः । इत्युक्तिमात्रात्काशीशे, सा विरागमसूचयत् ॥ ७४॥ बलिष्ठोऽयं मधूपघ्नपतिर्मधुरवाग्मधुः । एतं(नं) वृणीष्वेत्यवदत्प्रतीहारोऽथ तां पुनः ॥ ७५॥ कालियाहेरिव विषैर्विनीलं यामुनं जलम् । वृन्दावनं च यत्क्रीडास्थानं तस्योच्यतेऽथ किम् ॥ ७६॥ उपहासगिरेत्यस्मिन्, ज्ञातेऽथाऽरुचिते पुनः । प्रतीहारः कङ्कणानामित्यधीशमवर्णयत् ॥ ७७॥ १. गङ्गापूरे ।
SR No.002247
Book TitleRatnapal Nrup Charitram
Original Sutra AuthorN/A
AuthorYogtilaksuri, Dharmtilakvijay
PublisherSmruti Mandir Prakashan
Publication Year2008
Total Pages106
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy