Book Title: Ratnapal Nrup Charitram Author(s): Yogtilaksuri, Dharmtilakvijay Publisher: Smruti Mandir PrakashanPage 34
________________ हस्तायातमिदं राज्यमात्मसात्कृत्य साम्प्रतम् । क्ष्मानाथममुमुच्छेद्य,स्यामेवाहं महीपतिः ॥ १५७॥ विमृश्यैवं हृदि तदा, जयामात्यो दुराशयः । दानमानादिना सैन्यं, सर्वमात्मीयमातनोत् ॥ १५८ ॥ कुतश्चित्सिद्धपुरुषादाप्तया सिद्धविद्यया । निद्रामवस्वापिनी च, सोऽदात्तस्मै महीभुजे ॥ १५९॥ तया प्रनष्टचैतन्यं, तं पल्यङ्कस्थमेव सः । आप्तै त्यैरथोत्पाट्य, दूराटव्याममूमुचत् ॥ १६०॥ यनृशंसः स तं मापं, नूनं नामारयत्तदा । पवित्रमं तत्र तत्प्राच्यपुण्यमेवान्तराऽभवत् ॥ १६१॥ इतश्चाऽनन्यसामान्यां, प्राप्य तां राज्यसम्पदम् । तेन पापीयसोन्मत्तचित्तेन जयभूभुजा ॥ १६२॥ चक्रे महासतीमेकां, हित्वा शृङ्गारसुन्दरीम् । रत्नपालनृपाऽशेषान्तःपुरीशीलविप्लवः ॥ १६३॥ युग्मम् ॥ तेन कर्मश्वपाकेन, सापि शृङ्गारसुन्दरी । प्रार्थ्यते स्म प्रतिदिनं, विविधैश्चाटुभाषितैः ॥ १६४॥ परं शुद्धान्वयोद्भूता, दृढसत्त्वाशया सती । नस्य नह्यदधच्चाटुवचांसि श्रवणेऽपि सा ॥ १६५॥ रागान्धस्त्यक्तमर्यादः, स ततोऽनुदिनं क्रुधा । पञ्चशत्या कशाघातैस्ताडयामासतां सतीम् ॥ १६६ ॥ शिरीषसुकुमाराङ्गी, निकृष्टहृदयः स ताम् । दृढैलद्भिः सन्दंशैस्त्रोटयामास चासकृत् ॥ १६७॥ १. मत्यैः' इत्यपि । २. अपिबत् । प्रियवचनानि नाऽशृणोदित्यर्थः । ३. भूरिशः' इत्यपि । . २.Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106