Book Title: Ratnapal Nrup Charitram Author(s): Yogtilaksuri, Dharmtilakvijay Publisher: Smruti Mandir PrakashanPage 30
________________ प्रज्वलय् चितां प्राप, वीरसेनोऽथ सद्मनि । विषादविस्मयापन्नाः, पौराश्चागुः स्ववेश्मसु ॥ ११८ ॥ अस्मद्धठादियं बाला, बालश्चायं मृतावुभौ । इति सानुशयाश्चाऽन्ये नृपाः स्वस्वपुरं ययुः ॥ ११९॥ अथ प्रेष्य द्वितीयेऽह्नि, रहस्तत्र नदीतटे । साराऽलङ्कारनेपथ्यौ, कुमारश्च कनी च तौ ॥ १२० ॥ रोदसी बधिरीकुर्वन्, विविधातोद्यनिःस्वनैः । सम्मुखं सपरीवारस्तत्र गत्वा स भूपतिः ॥ १२१ ॥ पट्टहस्तिनमारोप्य, हर्षोत्कर्षोल्लसन्मनाः । धृतच्छत्रावुभयतो वीज्यमानौ च चामरैः ॥ १२२ ॥ यथेच्छदानैरनृणीकुर्वाणः सर्वतोऽवनीम् । प्रावेशयत्पुरस्याऽन्तर्महैर्विश्वातिशायिभिः ॥ १२३ ॥ ( चतुर्भिः कलापकम् ) सदस्याञ्श्रावयन् सोऽथ, सदस्याप्तः ससंभ्रमम् । तमप्राक्षीन्निजोत्सङ्गे, निवेश्यं नृपनन्दनम् ॥ १२४॥ कथं वत्स ! युवां वह्निप्रविष्टावपि जीवितौ । दिव्यालङ्कारनेपथ्यावाप्तिरेषा कुतश्च वाम् ॥ १२५ ॥ तदा सोऽपीत्यवंग् राजन् ! शीलसत्त्वादिशालिनः । दाहात्माऽपि दहेदग्निर्देहिनो न हि कर्हिचित् ॥ १२६॥ निः समं सत्त्वमालोक्य, शीलं चाऽतीव निर्मलम् । आवयोस्तोषमभजत्सप्रियश्च दिवस्पतिः ॥ १२७॥ ज्वालाकरालाज्वलनात्ततस्तेनाऽपहृत्य नौ । आनाययत्सुरैः सद्यः स्वर्गं स गुणिवत्सलः ॥ १२८ ॥ " १. पश्चात्तापतप्ताः । २. अकथयत् । ૧૫Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106