Book Title: Ratnapal Nrup Charitram
Author(s): Yogtilaksuri, Dharmtilakvijay
Publisher: Smruti Mandir Prakashan

Previous | Next

Page 19
________________ भवैरनन्तैराचीर्णं, दुष्कर्मानन्तमप्यहम्। क्षणेन भस्मसात्कुर्वे, वह्नी राशिमिवैधसाम्॥ २०॥ अन्यैरप्युक्तम्"दीप्यमाने तपोवह्नौ, बाह्ये चाऽभ्यन्तरेऽपि च । यमी जरति कर्माणि, दुजराण्यपि तत्क्षणात्" ॥5॥ निकाचितेभ्यः कर्मभ्यो, द्विधैवात्मा हि मुच्यते । . अनुभूय स्वयं तानि, कृत्वा वा भस्मसान्मया ॥ २१॥ यदुक्तं श्रीसीमन्धरस्वामिनापि"वाणं च खलु भो कडाणं कम्माणं पुब्बि दुच्चिण्णाणं दुप्पडिक्कन्ताणं वेइत्ता मुक्खो, नत्थि अवेइत्ता तवसा वा झोसइत्ता' इत्यादि ॥(दश. प्र.चूलिका) निषिद्धाचरणाद्युत्थैः, पापैरात्मा मलीमसः । । सम्यग्गुरूपदिष्टेन, मयैवाशु विशुध्यति ॥ २२॥ ब्रह्मस्त्रीभ्रूणगोघातपातकैर्नरकातिथिः । .. दृढप्रहारी शरणं, प्राप्तो नीतः शिवं मया ॥ २३॥ प्रक्षीणसप्तकः साक्षाजिनमाराधयन्नपि । श्रेणिकः प्राप नरकं, विमुक्तः करतो मया ॥ २४॥ अन्वयव्यतिरेकाभ्यां, दृष्टप्रत्ययमप्यहम् । दानशीलादिमाहात्म्यैः, कथं पश्चात्क्रिये बुधैः ॥ २५॥ दानादीन्यवदद्भावस्तदा गर्वेण मत्पुरः । किं न गर्जन्ति लज्जध्वे, मंदाप्य महिमश्रियम् ॥ २६॥ १. पापानां च खलु भोः कृतानां कर्मणां पूर्व दुचीर्णानां दुष्प्रतिक्रान्तानां वेदयित्वा मोक्षो, नास्ति अवेदयित्वा तपसा वा क्षपयित्वा ॥ इतिच्छाया .. २. मत्तः ( आप्य लब्ध्वा)। 1. मा वर्तमान .

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106