________________
यद्दत्तमाज्यं साधुभ्यो, धनसार्थेशजन्मनि । तेनाऽभूच्छीयुगादीशः, स त्रैलोक्यपितामहः ॥ ७॥ पाणेरिक्षुरंसं दातुः, प्रपौत्रस्यापि यत्प्रभुः । अधः पाणिमधान्नूनं, तन्माहात्म्यं मम स्फुटम् ॥ ८॥ ये न कस्यापि साहाय्यमीहन्ते कर्मणि क्वचित् । दातारं तेऽप्यपेक्षन्ते, प्रवृत्ता मुक्तिवर्त्मनि ॥ ९॥ किं बहुना । निधयो नव यत्पुंसः, सिद्धयोऽष्टौ च सद्मनि । यच्चाऽन्यदपि सद्भोगारोग्याचं तत्फलं हि मे ॥ १०॥ शीलं तदाख्यत्सोत्कर्ष, मोक्षाङ्गेष्वत्र मुख्यता । . ममैव युक्त्या घटते, न त्वन्येषां कथञ्चन ॥ ११॥ इहोद्भूताद्भुतप्रातिहार्यो यत्प्राप निर्वृतिम् ।। श्रेष्ठी सुदर्शनस्तत्र, हेतुः कोऽपि न मत्परः ॥ १२॥ सत्यः सीतासुभद्राद्याः, साधयन्ति स्म यत्पुरा । तत्तद्दुःसाधकृत्यानि,तन्माहात्म्यं हि मेऽनघम् ॥ १३॥ स्वेच्छाचार्यपि सावधनिरतः कलिकौतुकी । मामाराध्य मनःशुद्धया, नारदो मोक्षमाप्नुयात् ॥ १४॥ अन्यैरप्युक्तम्"कैलिकारओऽवि जणमारओऽवि सावजजोगनिरओऽवि । जं नारओऽवि सिज्झइ, तं खलु सीलस्स माहप्पं" ॥1॥
१. 'दातुः' इति तृना योगे षष्ठयभावः । २. आप्तवान् इति भवेत्। ३. कलिकारकोऽपि जनमारकोऽपि सावधयोगनरितोऽपि।
यन्नारदोऽपि सिद्धयति तत् खलु शीलस्य माहात्म्यम्"॥ इति च्छायां ॥