________________
॥ अर्हम् ॥
॥ परमगुरु श्रीमद्विजयरामचन्द्रसूरिपादपद्मेभ्यो नमः ॥ श्रीमद्वाचनाचार्य सोममण्डनमणिविरचितं
॥ श्रीरत्नपालनृपकथानकम् ॥
परिच्छेदः प्रथमः
श्रेयः श्रीसद्मने तस्मै नमः श्रीनाभिजन्मने । यन्नामापि नृणां दत्ते, कल्पशाखीव कामितम् ॥ १॥ दानं शीलं तपों भावश्चेति धर्मश्चतुर्विधः । श्रियां हेतुर्भवाम्भोधि-सेतुः केतुर्महापदाम् ॥ २ ॥ तत्र जानीत चोत्कृष्टं, दानं ' यत्प्राग्जिनैरपि । दानाद्यन्योन्यवादोक्ति- युक्त्या तद्गदितं गुरु ॥ ३ ॥ तथाहि
दानशीलतपोभावा, मुक्तिमार्गस्ततोऽन्यदा । मिथस्ते विवदन्ते स्म स्वस्वमाहात्म्यगर्विताः ॥ ४ ॥ दानमूचेऽहमेवाऽस्मि, मुक्तेर्मुख्यं निबन्धनम् । सहकारि तु तत्राऽन्यत्सर्वं शीलादि बुध्यताम् ॥ ५॥ मयैवाऽऽरोपितं (तः) प्रौढिमियतीमेकजन्मना । शिवं गमी शालिभद्रो जानात्येतज्जगत्रयम् ॥ ६॥
१. अत्र केतु शब्देनापदां नाशकत्वं सूचितम् ।