________________
नानुज्ञातं निषिद्धं वा,किञ्चिदन्यजिनैः क्वचित् । संसारबीजं त्वब्रह्म, सर्वत्रापि न्यषिध्यत ॥ १५॥ यदुक्तम्"नवि किञ्चि अणुन्नायं, पडिसिद्धं वावि जिणवरिंदेहिं । मुत्तुं मेहुणभावं,न तं विणा रागदोसेहिं" ॥2॥ जितेन्द्रियत्वं यत्तस्माद्विनयश्चेत्यतः क्रमात् । पुंसा स्युः सम्पदोऽपीत्थं, सम्पन्मूलमहं ध्रुवम् ॥ १६॥ "जितेन्द्रियत्वं विनयस्य कारणं, गुणप्रकर्षो विनयादवाप्यते। गुणप्रकर्षेण जनोऽनुरज्यते, जनानुरागप्रभवा हि सम्पदः" ॥3॥ तन्ममेत्याद्यसम्भाव्याऽवदातविदितात्मनः । शतांशमपि नाऽर्हन्ति,धर्मा दानादयो ध्रुवम् ॥ १७॥ तपस्तदाख्यद्दानादेर्गुरुता तावदिष्यते । जगत्युजागरं यावन्मन्माहात्म्यं न वीक्ष्यते ॥ १८॥ दुःसाधकार्ये हरयश्चक्रिणश्च महौजसः । इष्टसिद्धिप्रतिभुवं मामेवोपासते सदा ॥ १९॥ . यदुक्तम्“अथिरंपि थिरं वंकंपि उज्जुअं दुल्लहपि तह सुलहं । दुस्सझपि सुसझं, तवेण सम्पज्जए कज्जं' ॥4॥ .
१. "नापि किञ्चिदनुज्ञातं प्रतिषिद्धं वाऽपि जिनवरेन्द्रैः।। ... मुक्त्वा मैथुनभावं न तद्विना रागद्वेषाभ्याम् ॥” इतिच्छाया २. "अस्थिरमपि स्थिरं वक्रमपि ऋजुकं दुर्लभमपि तथा सुलभम् ।
दुःसाधमपि सुसाधं तपसा संपद्यते कार्यम्॥" 1. “તેથી, આ પ્રમાણે સંભવી પણ ન શકે એવા તેજથી ઓળખાયું છે સ્વરૂપ જેનું
એવા મારા' એમ અર્થ કરવો.