Book Title: Pratyek Tattva Chintamani
Author(s): Sadanand Vidvat
Publisher: Achyut Granthmala

View full book text
Previous | Next

Page 279
________________ षष्ठं प्रकरणम्। २४७ स्वस्य स्ववृत्तित्वाभावात्कथं स्वरूपमेव लक्षणं स्यात् ? इति तत्राहधादिभाव इति । इहोपदेशसमये स्वस्यैव स्वापेक्षया धर्मधर्मिभावकल्पनया लक्षणत्वसम्भवादत इदं नित्यापरोक्षरूपमात्मतत्त्वं स्वयमेव स्वस्य लक्षणं भवतीत्यर्थः। तत्र सत्यं बाध्यविलक्षणं ज्ञानं जडविलक्षणमनन्तं त्रिविधपरिच्छेदशून्यं स्वरूपलक्षणं स एव तत्पदलक्ष्यार्थ इति दर्शितम्। न च स्वरूपे धर्मधर्मिभावकल्पनाऽसाम्प्रदायिकीति शक्यम् । यत उक्तञ्चास्मत्साम्प्रदायिकैः पद्मपादाचार्यैः"आनन्दो विषयानुभवो नित्यत्वञ्चेति सन्ति धर्मा अपृथकत्वेऽपि चैतन्यात् पृथगिवाऽवभासन्ते” इति ॥ ४ ॥ व्यावर्तक यद्ध्यनवस्थितत्वे सत्यस्ति यावनिजलक्ष्यकालम् । तल्लक्षणं नाम तटस्थमाहु र्यथा पृथिव्याः खलु गन्धवत्त्वम् ॥ ५॥ एवं स्वरूपलक्षणमुक्ता तटस्थलक्षणमाह-व्यावर्त्तकमिति । यावन्निजलक्ष्यकालमनवस्थितत्वे सति यद्व्यावर्तकमस्ति, तल्लक्षणं तटस्थं नामेति सम्बन्धः। यथा गन्धवत्त्वं पृथिव्याः लक्षणमाहुः खलु नैयायिकादय इति योजना ॥ ५॥ यया न गन्धः प्रलयेऽणुषु स्या दुत्पत्तिकाले न घटादिनिष्ठः। तथा जगज्जन्मलयस्थितीनां हेतुत्वमद्वैतचिदात्मनोऽपि ॥ ६ ॥ एतदेवोक्तं दृष्टान्तेन द्रढयति-यथेति। महाप्रलये परमाणुषु उत्पत्तिकाले घटादिषु च गन्धाभावात् तथा प्रकृतेऽपि जगजन्मस्थिति Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366