Book Title: Pratyek Tattva Chintamani
Author(s): Sadanand Vidvat
Publisher: Achyut Granthmala

View full book text
Previous | Next

Page 299
________________ षष्ठं प्रकरणम् । २६७ तथा च तत्तत्कार्यनाशे वत्तज्जनका दृष्टनाशस्यैव प्रयोजकतया उपादाननाशस्याप्रयोजकत्वात् । अन्यथा न्यायमतेऽपि महाप्रलये पृथिवी - परमाणुगत रूपरसादेरविनाशापत्तेरिति भावः । अतः सर्वक्षये सति कार्यमात्रं कारणता कारणस्वरूपेणावस्थानं प्रयातीत्यर्थः ।। ३३ ।। पृथ्व्यपसु तेजसि जलं लयमेति वाया तेजा मरुत्तु गगने खमहङ्कृतौ च । साऽहङ्कृतिर्महति याति लयं महांश्च मायामय: स्वप्रकृतौ विलयं प्रयाति ॥ ३४॥ - विपरीतक्रमं दर्शयति — पृथिवी प्रप्सु, प्रापस्तेजसि, तेजा वाया, वायुर्गगने, गगनमहङ्कृतौ, साऽहङ्कृतिरहङ्कारो महति महत्तत्त्वे, हिरण्यगर्भाहङ्कारेण महत्तत्त्वच मायाविकारत्वात् स्वप्रकृतौ मायायां विलयं प्रयातीति योजना । तदुक्तं " जगत्प्रतिष्ठा देवर्षे ! पृथिव्यत्सु प्रलीयते ! तेजस्यापः प्रलीयन्ते तेजेा वाया प्रलीयते || वायुश्च लीयते व्योम्नि तच्चाव्यक्ते प्रलीयते । अव्यक्तं पुरुषे ब्रह्मन् ! निष्कले सम्प्रलीयते ॥” इति ॥ ३४ ॥ विश्वोद्भवस्थितिलयै क कर त्वमेव स्याल्लक्षणं भगवतेाऽस्य तटस्थमेतत् । अध्यस्तमेव परमात्मनि कार्य्यजातं तस्मिन्निषिद्धमिदमद्वयमेव सिद्धम् ॥ ३५ ॥ एवं जगज्जन्मस्थितिप्रलयहेतुत्वं ब्रह्मणस्तटस्थ लक्षणं सिद्धमित्याहविश्वाद्भवेति । तटस्थलक्षणनिरूपणेन यत्फलितं तदाह — अध्यस्त - मिति ।। ३५ ।। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366