Book Title: Pratyek Tattva Chintamani
Author(s): Sadanand Vidvat
Publisher: Achyut Granthmala

View full book text
Previous | Next

Page 319
________________ षष्ठं प्रकरणम् । २८७ एतावदेव सर्वशास्त्रविचारफलं सर्वप्रयत्नेन सम्पाद्यम् , तत्सम्पा. दनञ्च विषयवैराग्यभगवद्भक्तिभ्यामेव नान्यथेति वदन मुमुक्षून शिक्षयति-लब्ध्वेति । अतिदुर्लभमनन्तसुकृतपरिपाकं विना दुष्प्रापं नरजन्माधिकारि शरीरमिदं क्षणभङ्गुरतयानुभूयमानं मोक्षद्वारत्वादेवातिदुर्लभं लब्ध्वा प्राप्य भोगस्पृहामासुरीम्-असून प्राणेन्द्रियाणि रमयन्ति तर्पयन्तीत्यसुरास्तत्सम्बन्धिनी मतिम् , अत एव जडजनाभिमतां देहाद्यभिमानिमूढजनाभीष्टाम् , अत एवात्मनः पात: संसारान्धकूपे यया तामशेषत:प्रामनुष्यादाविरिन्च्यं साकल्येन त्यक्त्वा दृष्टानुश्रविकवैतृष्ण्यं प्राप्येत्यर्थः। तत्र हेतु:-विवेकीति । नित्यानित्यवस्तुविवेकवान् साधनचतुष्टयसम्पन्नः सन्निगमान्तविचारे तत्त्वमस्यादिवेदान्तवाक्यविचारे यतेत तत्त्वसाक्षात्कारपर्यन्तं प्रयत्नं कुर्यादित्यर्थः ॥ ७० ॥ वैराग्यमेव विषयेभ्य उदारभक्त्या जातां मुमुक्षुमपवर्ग्यपथे युनक्ति। विष्णोर्गणश्रवणकीर्तनसंस्मृतिभ्यो भक्तिर्भवेद्भगवतीश्वर आत्मनाथे ॥ ७१॥ तत्त्वज्ञानस्य पुष्कलं साधनं वैराग्यमेव, तच्च भगवद्भक्त्यधीनमित्याह-वैराग्यमिति । उदारस्य भगवतो वासुदेवस्य भक्त्या विषयेभ्यो वैराग्यमेव जातं सत् मुमुक्षुमपवर्यपथे पवर्गहितत्वात्तत्त्वज्ञानमपवयं तस्य पन्थास्तत्प्राप्तिमार्ग: श्रवणादिरूपस्तत्र युनक्ति योजयति । ननु भगवद्भक्तिर्जाता चेद्वैराग्यं जनयिष्यति तस्या एव कुतो जन्मेत्यत आह-विष्णोरिति । व्यापनशीलस्य भगवतो वासुदेवस्य गुणानुवादश्रवणकीर्तनसंस्मृतिभ्यो भगवति भजनीयगुण भक्तिर्भवेदित्यावश्यक तद्भजनं जीवानामिति बोधयितुम् 'ईश्वरे' इति, स्वामिप्रसादसिद्धये भृत्यैर्नित्यं यतितव्यमिति बोधयितुम् 'प्रात्मनाथे' इत्युक्तम् ॥ ७१ ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366