Book Title: Pratyek Tattva Chintamani
Author(s): Sadanand Vidvat
Publisher: Achyut Granthmala

View full book text
Previous | Next

Page 321
________________ षष्ठं प्रकरणम् । २८६ ईक्षेत नित्यमचलं रहसि स्थितः सन् ध्यात्वा तमेवमपरोक्षतया विभातम् ॥७४॥ तस्मात्त्वंपदार्थविचारोऽत्यावश्यकः, तं मुमुक्षुर्नित्यमेव कुर्यादित्यभिप्रेत्याह-देहादिवर्गेति। देहादिजडवर्गगता याऽऽध्यासिकी नैजमति: स्वात्मत्वबुद्धिस्तां विहाय त्यक्ता तेभ्योऽनात्मरूपेभ्यो विलक्षणं प्रत्यञ्चमीक्षेत । प्रत्यक्वमेवाह-एकमिति । अनेकेषु देहादिष्वनुगतम्, अजडं चैतन्यम्, अत एव स्वस्मिन् कलितस्य जडस्य देहादेः साक्षिणं साक्षाद्रष्टारम्, नित्यं सत्यमबाध्यमिति यावत्, अचलं नित्यकौटस्थ्यादक्रियम्, स्वप्रकाशत्वान्नित्यापरोक्षतया विभातं स्वत एव स्वप्रकाशमानम्, स्वं स्वात्मानं रहसि विविक्तदेशे स्थितः सन् तमेवमुक्तस्वरूपं ध्यात्वा श्रुतं मतञ्च निदिन्यास्य ईक्षेत साक्षात्कुर्यादित्यर्थः ।। ७४ ।। श्रुत्वा श्रुतिभ्य उदितं गुरुणात्मतत्त्वं युक्त्यावगम्य नितरां परमात्मनिष्ठः । ध्यायंस्तमेवमनिशं निजतत्त्वबोधं साक्षात्करोति भवबन्धलयस्ततः स्यात्॥७॥ उक्तमेवार्थ पुनर्द्रढयति-श्रुत्वेति । आदौ गुरुणादितं श्रुतिभ्यस्तत्त्वमस्यादिवाक्येभ्य आत्मतत्त्वं श्रुत्वा सम्यगवधार्य पुनर्नितरामतिशयेन परमात्मनिष्ठो मुमुक्षुर्युक्त्या श्रुत्यनुकूलतकैरवगम्य सम्भावितमेवमनिशं नित्यं ध्यात्वा निदिध्यास्य निजतत्त्वं ज्ञानघनं साक्षात्करोति, तत: स्वत एव भवपाशहानिर्भवतीति योजना ।। ७५ ॥ ख्यमनिरस्य विकल्पजालं न स्यात्त्वमर्थपरिशोधनमैक्ययोग्यम् । ३७ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366