Book Title: Pramannay Tattvalolankar
Author(s): Vadidevsuri, 
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 5
________________ ( ३ ) जाताः सलभा इव परिपतन्ति ते लभन्ते न स्वात्मविना शाहते किञ्चिदपि भावुकम् । श्रीवादिदेवसूरिभगवतोऽन्तेवासी श्रीरत्नप्रभसूरिर्वसुलोकार्क १२३८ मिते विक्रमाब्दे निजनिर्मितोपदेशमालाटीकायामेवं व्यलेखीत् । शिष्यः श्रीमुनिचन्द्रसूरिमुनिभिर्गीतार्थचूडामणिः पट्टे स्वे विनिवेशितस्तदनु स श्रीदेवसूरिप्रभुः । अस्थाने जयसिंहदेवनृपतेर्येनास्तदिग्वाससा स्त्रीनिर्वाणसमर्थनेन विजयस्तम्भः समुत्तम्भितः ॥ तत्पट्टप्रभवोभवन्नथ गुणग्रामाभिरामोदयाः श्रीभद्रेश्वरसूरयः शुचिधियस्तन्मानसप्रीतये । श्रीरत्नप्रभसूरिभिः शुभकृते श्रीदेवसूरिप्रभोः शिष्यैः सेयमकारि संमदकृते वृत्तिर्विशेषार्थिनाम् ॥ तथा च । विक्रमाद वलोकार्क १२३८ वर्षे माघे समर्थिता एकादश सहस्राणि मानं सार्धं शतं तथा ॥ १११५० अस्माद् श्रीरत्नप्रभसूरेः समयः स्फुटमेवावभाति -

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 68