________________
४
प्रमाणनय तत्त्वालोकालङ्कारः ।
अथ द्वितीयः परिच्छेदः
10:
तद्विभेदं प्रत्यक्षं च परोक्षं च ॥ १ ॥ स्पष्टं प्रत्यक्षम् ॥ २ ॥ अनुमानाद्याधिक्येन विशेषप्रकाशनं स्पष्टत्वम् ॥ ३ ॥
तद्विप्रकारं सांव्यवहारिकं पारमार्थिकं च||४|| तत्राद्यं द्विविधमिन्द्रियनिबन्धनमनिन्द्रियनिबन्धनं च ॥ ५ ॥ एतद्वितयमवग्रहेहावायधारणाभेदादेकशश्चतुर्विकल्पकम् ॥ ६ ॥ विषयविषयिसन्निपातानन्तरसमुद्भूतरुत्ता
मात्रगोचरदर्शनाज्जातमाद्यमवान्तरसामान्याकारविशिष्टवस्तुग्रहणमवग्रहः ॥ ७ ॥ अवगृहीतार्थविशेषाकाङ्क्षणमीहा ॥ ८ ॥
१ ' एकैकश" इत्यपिपाठान्तरम् ।