Book Title: Pramannay Tattvalolankar
Author(s): Vadidevsuri, 
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 60
________________ ५० प्रमाणनयतत्वालोकालङ्कारः। शब्दानां स्वप्रवृतिनिमित्तभूतक्रियाविष्टमर्थं वाच्यत्वेनाभ्युपगच्छन्नेवंभूतः।३९। यथेन्दनमनुभवनिन्द्रः शकनक्रियापरिणतः शक्रः पूर्दारणप्रवृत्तः पुरन्दर इत्युच्यते।४।। क्रियानाविष्टं वस्तुशब्दवाच्यतया प्रतिक्षिपंस्तुतदाभासः ॥४२॥ यथाविशिष्टचष्टाशून्यं घटाख्यं वस्तु न घट. शब्दवाच्यं घटशब्दप्रवृत्तिनिमित्तभूतक्रियाशून्यत्वात् पटवदित्यादिः ॥ ४३ ॥ एतेषु चत्वारः प्रथमेऽर्थनिरूपणप्रवणत्वादर्थ. नयाःशेषास्तुत्रयः शब्दवाच्यार्थगोचरतया शब्दनयाः ॥४४॥ पूर्वः पूर्वोनयः प्रचुरगोचरः परः परस्तु परि. मितविषयः॥४५॥

Loading...

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68