Book Title: Pramannay Tattvalolankar
Author(s): Vadidevsuri,
Publisher: Yashovijay Jain Pathshala
View full book text
________________
४८ प्रमाणनयतत्त्वालोकालङ्कारः। यथा यत्सत्तद्रव्यं पर्यायावेत्यादि ॥२४॥ यः पुनरपारमार्थिकद्रव्यपर्यायविभागमभिप्रेति स व्यवहाराभासः ॥ २५॥ यथा चार्वाकदर्शनम् ॥ २६ ॥ पर्यायार्थिकश्चतुर्दा ऋजुसूत्रः शब्दः समभिरूढ एवंभूतश्च ॥ २७ ॥ ऋजुवर्तमानक्षणस्थायिपर्यायमाप्राधान्यतः सूत्रयन्नभिप्राय विशेष ऋजुसूत्रः ॥ २८॥ यथासुखविवर्त्तः सम्प्रत्यस्तीत्यादि॥२९॥ सर्वथाद्रव्यापलापीतदाभासः ॥ ३० ॥ यथा तथागतमतम् ॥ ३१ ॥ कालादिभेदेन भनेरर्थभेदं प्रतिपद्यमानः शब्दः ॥३२॥ यथा बभूव भवति भविष्यति सुमेरुरित्यादि।

Page Navigation
1 ... 56 57 58 59 60 61 62 63 64 65 66 67 68