Book Title: Pramannay Tattvalolankar
Author(s): Vadidevsuri, 
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 3
________________ -:0: - - अहम् प्रस्तावना। अथास्यां संसृतिसरण्यां समागत्य सर्वे शरीरिणः शान्तिशकलमप्यनासादयन्तः समयसरीसृपशीर्णाः संसारापारपारावारपारमुपसर्तुमपारयन्तः परमपारमार्थिकपदमपि पुण्यपद्यया प्राप्तुमपारमार्थिकं मन्वानाःक्षोदिष्ठप्रज्ञया सर्वाऽवज्ञया च पाश्चभौतिकपिण्डप्रेष्ठाः कलिकल्मषकालिमकलङ्कद्राधिष्ठा विषमविषविषयाशीविषदष्टविशर्णिविषस्फेष्ठाः किंवा विषकीटा इव विषयविषभुजो ऽनादिदुर्वासनावासितबुद्धयश्चाहमहमि. कामेव परमपुरुषार्थ साधिष्ठमाकलयन्तोवलिताश्च गरिष्ठाहोपुरुषिकया प्रत्यहं पितृवने दीर्घनिद्रासुखमनुभवन्तः क्रियासमाभिहारेण इसिप्ठजननीजठरे वसन्तः सांसारिकानेकवं. हिष्ठकटुक्लेशपाशिताः सुप्तप्रबुद्धा इव प्रबुद्धसुप्ता इव तिष्ठन्ति । तदत्र किं कारणं को हेतुः किं प्रयोजनं कस्मादित्यमिति सानेडितप्रश्नावसरे सर्वमेतदविद्याविलाससाम्राज्येनेति वारं वारं वयमुत्तरयामः।

Loading...

Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 ... 68