Book Title: Pramannay Tattvalolankar Author(s): Vadidevsuri, Publisher: Yashovijay Jain Pathshala View full book textPage 4
________________ ( २ ) हंहो विलक्षणशेमुषीका विचक्षणाः! शुभवन्तोभवन्तः सहृदयहृदयसन्तोषप्रददन्तोषितरसज्ञ रसज्ञा रस ज्ञापितं कर्ण्यतांवहत्किमपि श्वःश्रेयसमिदमाकर्ण्य नीरक्षीरविवेचनविलक्षणचेतनाचातुरीचमत्कारचमत्कृताः सकृदप्योमिति ब्रूयुः । अविद्यानिरासार्थमेव प्रयतमानैरस्माभिः श्रीजैनयशोविनयग्रन्थमाला ऽनय॑मणिगणगुम्फिता हारभूतेव भवतां श्रीमतामुपहारीयते । तस्यामेकेयं मणीरामायिता प्रमाणनयतत्वालोकालङ्काररूपा सर्वोपरि सुमेरुभूतेव विलसति । ___ अमुं ग्रन्थं श्री १०८ सुगृहीतनाम्नोवादिप्रवरदेवसूरेर्मुखाम्भोजनिर्गलितामृतधाराऽऽसारमिव प्रमाणनयतत्वालोकालङ्कारमदृष्टपूर्व जैनमतमन्तव्यप्रमाणविचारकरं दुर्वादिवादवासनानिर्यातनपरं विलक्षणभङ्गीकं सप्तभङ्गीतरङ्गरिङ्गितं निबन्धं निरीक्ष्य किमिदं कथमिदं कस्येदं कीदृक्षमिदमिति स्वभावेनैव जिज्ञासवः संपत्स्यन्ते तत्त्वग्रहाग्रहग्रहिलाः शास्त्रप्रियाग्रियास्तदत्रावश्यकं किञ्चनोपन्यस्तुम् ।। तत्र प्रथममवधेयं धीमद्धौरेयैस्तत्रभवद्भिः, यत्कस्यापि मतस्य तत्त्वमनाकलय्य खण्डनमण्डनबद्धपरिकरा ये यथाPage Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 68