Book Title: Pind Niryukti
Author(s): Manekyashekharsuri, Kanchanvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
क्षमा
रत्ननीयावचूर्युपेता
परि०९ वीराचार्यकृतटीकायाराद्यभागः।
पिण्डनियुक्तिः। ॥१४॥
सर्वस्यापि सचित्तादिवस्तुन उपलक्षणार्थम् , एवं वाऽनन्तरोक्या महास्या गाथायाः पुनरुक्तताऽपि पराहृता भवन्ति, यद्यपि हि प्रायो द्वेऽपि गाथे समानार्थे, तथाप्याद्या क्रमायातस्योभयातिरिक्तस्य प्रतिपादिका, द्वितीया तु नियुक्तिगाथायां नोपाचेति, तस्यापि परेणाविद्यमानतायां शङ्कितायामुत्तरदायिकेऽन्यकर्तृकीयमित्यन्ये, तत्र न पुनरुक्तायामपि कश्चिद्दोषः, केवलमस्याः पातनायामथवा सा इति गाथार्थः ॥ ५॥ ननु समयकृतस्य लौकिकस्य च नाम्नः संज्ञात्वेन निष्पन्नत्वान्नास्ति विशेषः, किमिति मेदेनोक्ते ते ! इति, उच्यते तदुत्पादकयोः समयलोकयोः स्वभावभेदेन तयोरप्युत्पाद्ययोर्मेंदो विवक्षित इति, अथ कस्तयो स्वभावभेद इत्यत आह___तुल्लेऽवि अभिप्पाए । भा० ६ ॥ व्याख्या-तुल्येपि-सामान्येऽप्यतुल्ये न गृह्णात्येवेति अपि शब्दार्थो, यथा तीर्थकरे शंकर | इति नाम, सामायिकानां हि शं करोतीति शकरः, ऐहिकामुष्मिकसुखजनकलक्षणक्रियानिमित्तत्वात् , क्रियानिमित्ताख्यं गौणं नामेदमित्यभिप्रायः, लोकस्य तु तीर्थकरस्याप्यनभ्युपगमात् प्राकृतपुरुषादावप्येतन्नामश्रवणाच्च, संज्ञानामेदमित्यभिप्रायतुल्यता, अभिप्राये नामनिष्पत्तेः कारणभूते संज्ञाकरणलक्षणे उभयेषामपि मनोविकल्पे सामायिकैर्हि समयकृतं, लोकेन तु लौकिकं संज्ञाकरणलक्षणमेकमेव निमित्तमाश्रित्य नाम दत्तमित्यर्थः, समयप्रसिद्धं-सामायिकैः कृतमित्यर्थः, यथा समुद्देशादिकं भोजनदेवादिकं नाम न गृह्णाति-व्यववहारविषयी न करोतीत्यर्थः, सर्ववित्त्वाभावाद्विवक्ष याऽपि सर्वमतानीकाराभावाच्च, लोकः-पृथग्जनः यस्किमपि पुनर्लोकप्रसिद्धं-पृथग्जनख्यातं तन्नाम सिंहकादिकं पुरुषदेवादिकं सामायिका-गणधरादयः उपचरन्ति-व्यवहारविषयं कुर्वन्ति, सर्ववित्वाभावाद्विवक्षया सर्वमताङ्गीकारभावाचेत्यनयोः स्वभावभेद इति गाथार्थः ।। ६ । उक्तो नाम पिण्डः, अथ " गोन्नं समयकयं" (गा०६ )चेत्यादि गाथायां " ठवणापिण्डं अओ वोच्छं" इति चतुर्थपादोद्दिष्ट स्थापनापिण्डमाह
॥१४॥
Jain Education inte
For Private Personal Use Only
Irww.jainelibrary.org

Page Navigation
1 ... 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396