Book Title: Pind Niryukti
Author(s): Manekyashekharsuri, Kanchanvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
परि०९ वीरगणि
कृतटीकाया अन्त्य भागः।
एतैरातकादिभिः षड्भिरेव प्रतीतैरवधारणं तुशब्दयोजनाज्ज्ञेयं, स्थानैः पदैरनाहारः-उपवासी, तुर्व्याख्यात एव, यः कश्चित्साधुः भवेत् स्यात् धर्म-पुण्यं ते नैव अतिक्रामेत्-त्यजेत् स इति विशेषः भिक्षुः-साधुः, यदि किमित्याह धर्मध्यानरतः-शुभाध्यवसायासक्तः भवेत्-स्यादिति श्लोकार्थः ॥ ग्रन्थोपसंहारं चिकीर्षुः पूर्वोक्तसमस्तदोषकथनायाह
सोलस उग्गमदोसा० ।। ६६९ ॥ व्याख्या-सुगमा केवलं, तु समुच्चये, मकारोऽलाक्षणिकः, इह पूर्वसंस्तवपश्चात्संस्तवाभ्यामेक एव संस्तवाख्यो दोष एव, चूर्णयोगौ तु भिन्नभिन्नौ द्वौ दोषावुक्ती, कापि ग्रन्थे व्यत्ययो दृश्यत, इति सर्वे सप्तचत्वारिंशत्, एतान् दोषान्विशोधयन् साधुः पिण्डं विशोधयति, तद्विशुद्धौ तु चारित्रं निर्मलयति, तन्नर्मल्यात् तु शीलमानं तु सिद्धकृतं निर्वाण, निर्वाणमवाप्नोति, तस्मान्मुमुक्षुणैतैरुद्गमादिदोषः शुद्धो पिण्ड एषितव्य इति गाथार्थः ॥ ६६९ ॥ ग्रन्थस्योपसंहारार्थ स्वमनीषिकारचितत्वपरिहारमपवादं चाह
एसो आहारविही० । ६७० ।। व्याख्या-एषः-सकलग्रन्थोक्तः, आहारस्य-पिण्डस्य विधिः-विधान-शुद्धाशुद्धतया निरूपणमित्यर्थः, सः यथा-आधाकादिभेदरूपप्रकारेण भणितः-उक्तः सर्वभावदर्शिभिः-समस्तजीवादिपदार्थावलोककैस्तीर्थकररित्यर्थः, अनेन ग्रन्थस्यादेयता स्यात् , तथा मयाऽपि स्वमतिविभवानुसारतो अन्यतया ग्रन्थीति शेषः, किंबहुना ! धर्म:-श्रुतचारित्ररूपः आवश्यकरूपः-प्रतिदिननियमकरणस्वभावः योगाश्व-प्रत्युपेक्षणादिव्यापारा धविश्यकयोगाः येन केनचित् यथोचित्यमाधाकम्माथासेवारूपप्रकारेण न-नैव हीयन्ते-हानियांन्ति, तत्-तदेव कुर्याद-विधेयात, अनेनोत्सर्गापवदाश्रितेन साधुना भाव्यमित्युक्तं स्यादिति गाथाथः ।। ६७० ॥ केवेत्थमपवादमासेवमानस्य साधोः पृथिव्यादिविराधनापि निर्जराफला स्यादित्येतदेवाह
Jain Education Internet
For Private & Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396