Book Title: Pind Niryukti
Author(s): Manekyashekharsuri, Kanchanvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 389
________________ परि०१० माणिक्यशेखरीयदीपिकाया अन्त्य भागः। xxx त्पादनायानुकूलद्रव्यैः सह संयोजनं यत्करोति बहिरेव भिक्षामटन् एषा बाह्या द्रव्यसंयोजना, अभ्यन्तरा पुनर्यद्वसतावागत्य भोजनवेलायां संयोजयति, तथा चाह-'अन्तस्तु' अभ्यन्तरा पुनः संयोजना त्रिधा-त्रिप्रकारा, तद्यथा-पात्रे लम्बने वदने च, नवरं 'लम्बनं ' कवलः, ततोऽस्यास्त्रिविधाया अपि विभाषा-व्याख्या कर्तव्या, सा चैवं यद् द्रव्यं यस्य द्रव्यस्य रसविशेषाधायि तत्तेन सह पात्रे रसगृझ्या संयोजयति, यथा सुकुमारिकादिकं खण्डादिना सह एषा पात्रेऽभ्यन्तरा संयोजना, यदा तु हस्तगतमेव कवलतयोत्पाटितं चूर्ण सुकुमारिकादि खंडादिना सह संयोजयति तदा कवलेऽभ्यंतरा संयोजना, पुनर्वदने कवलं प्रक्षिप्य ततः शालनकं प्रक्षिपति, यद्वा मण्डकादिकं पूर्व प्रक्षिप्य पश्चाद् गुडादिकं प्रक्षिपति, एषा वदनेऽभ्यन्तरा संयोजना, एषा च द्रव्यसंयोजना समस्ताऽप्यप्रशस्ता, यतोऽनयात्मानं रागद्वेषाभ्यां संयोजयति ।। ६३७ ।। तथा चामुमेव दोपं वक्तुकाम आह-- संयोजगाए दोसो० ॥ ६३८ ॥xxx xxx दीर्घतरं संसारं, तस्माच्च भवाद-दीर्धतरसंसाररूपात दुःखं असातं संयोजयति, ततो यो द्रव्यसंयोजनां करोति तस्येत्थमनन्तकालसंवेद्यो दुःखनिपात इति ।। ६३९ ।। सम्प्रत्यस्या एव द्रव्यसंयोजनाया अपवादमाह पत्तेय पउल मे०॥ ६४० ॥ प्रत्येक एकैकं साधुसङ्घाटकं प्रति प्रचुरलाभे विपुलघृतादिप्राप्तौ सत्यां यदि कथमपि भुक्ते सति चःसमुच्चये शेष-उद्धरितं भवति, ततस्तस्य शेषस्य निगमनार्थ दृष्टः-अनुज्ञातस्तीर्थकृदादिभिः खलु संयोगः, उद्धरितादिपरिष्ठापने स्निग्धस्वात् पश्चादपि कीटिकादिसत्यव्याघातसम्भवेन बृहत्तरप्रायश्चित्तसम्भवात् , तत उद्धरितघृतादिनिर्गमनार्थं खण्डाधैर्योजन न दोषाय, एष तावदयमपवादः संयोजनायाः । अथाऽन्योऽपि तस्य संयोगस्यायं वक्ष्यमाणः क्रमः परिपाटीरुपो भवति ।। ६४० ।। तमेवाह Jain Education Intern a l For Private & Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396