Book Title: Pind Niryukti
Author(s): Manekyashekharsuri, Kanchanvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 388
________________ क्षमारत्नीयावचूर्युपेता ५ परि०१० माणिक्यशेखरीयदीपिकाया अन्यभागः। श्री. पिण्डनियुक्तिः। ॥१७४॥ गृहीतो मत्स्यबंधन ।। ६३०॥ अह मंसंमि पहीणे० ॥ ६३१ ॥ अथ मांसे प्रक्षीणे ध्यायन्तं मात्स्यिकं मत्स्यो भणति, यथा-किं त्वमेवं ध्यायसि-चिन्तयसि !, श्रुणु तावद्यथा-॥ ६३१ ॥ कदाचिदहं बलाकया गृहीतः, ततस्तया मुखे प्रक्षेपार्थमूर्ध्वमुत्क्षिप्तस्ततो मया चिन्तितं-यद्यहमृजुरेवास्या मुखे निपतिष्यामि तर्हि पतितोऽयं मुखे इति न मे प्राणकुशलं, तस्मात्तिर्यग्निपतमी त्येवं विचिन्त्य दक्षतया तथैव कृतं, परिभ्रष्टस्तस्या मुखात् , ततो मूयोऽपि तयोर्ध्वमुरिक्षप्तस्तथैव च द्वितीयमपि वारं मुखात्परिश्रष्टः, तृतीयवेलायां तु जाळे निपतितस्ततो दूरं पलायितःxxx xxx ॥ ६३३ ॥ एतादृशं पूर्वोक्तस्वरूपं मम सत्तं शठं-कुटिलं घट्टितस्य-धीवरादिकृतस्योपायस्य घट्टनं-चालकं, ततस्त्वमिच्छसि मां गलेन ग्रहीतुमित्यहो । ते-तव अहोकता-निर्लजतेति । तदेवमुक्तो द्रव्यप्रासैषणाया दृष्टान्तः, सम्पति भावप्रासैषणायामुपनयः क्रियते-मत्स्यस्थानीयः साधुर्मासस्थानीयं भक्तपानीयं मात्स्यिकस्थानीयो रागादिदोषणः, यथा न छलितो मत्स्य उपायशतेन तथा साधुरपि भक्तादिकमभ्यवहानात्मानमनुशास्तिप्रदानेन रक्षयेत् ।। ६३३ ॥ तामेवानुशास्ति प्रदर्शति- चायालीसेसण । ६३४ ॥ इह एषणाग्रहणेन एषणागता दोषा अभिधीयन्ते ततोऽयमर्थः-द्विचत्वारिंशत्साया ये एषणादोषा गवेषणाग्रहणैषणादौषास्तैः सङ्कटे-विषमे ग्रहणे-भक्तपानादीनामादाने हे जीव ! स्वं नेव छलितः, तत इदानी-सम्पति भुञ्जानो रागद्वेषाभ्यां यथा न छल्यसे तथा कर्तव्यम् ॥ ६३४ ॥ सम्पति तामेव भावग्रासैषणां प्रतिपादयति पासेसणा उ भावे. ॥ ६३५ ।। भावे-भावविषया प्रासैषणा द्विविधा, तद्यथा xxx ॥१७४॥ For Private & Personal Use Only in Eden in Jww.jainelibrary.org

Loading...

Page Navigation
1 ... 386 387 388 389 390 391 392 393 394 395 396