Book Title: Pind Niryukti
Author(s): Manekyashekharsuri, Kanchanvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 380
________________ क्षमा रत्नीयावर्यपेता श्रीपिण्डनियुक्तिः। ॥१७॥ परि०१० माणिक्य. शेखरीयदीपिकाया अन्यभाग। सा तथाविधा दात्री भिक्षां ददती करादिलमान् सत्त्वान् हन्ति, तस्मात्सा वय॑ते, तथा महत्पिठरं यदा तदा वा नोत्पाव्यते, नापि यथा तथा वा सञ्चायते, महत्वादेव, किन्तु प्रयोजनविशेषोत्पत्तौ सकृत् , ततस्तदाश्रिताः प्रायः कीटकादयः सत्त्वाः सम्भवन्ति, ततो यदा तपिठरादिकमुद्वर्त्य किञ्चिद्ददाति तदा तदाश्रितजन्तुव्यापादः, एते च दोषा उत्पाट्यमानेऽपि महति पिठरादौ, तत्रापि हि भूयो निक्षेपणे हस्तसंस्पर्शतो वा सञ्चारिमकीटिकादिसत्त्वव्याधातः, अपि च तथाभूतस्य महत उत्पाटने दाव्याः पीडा भवति, तस्मान्न तदुत्पाटनेऽपि भिक्षा कल्पते ॥ ५९३ ।। सम्पति साधारणं चोरितं वा ददत्या दोषानाह साधारणं बहूर्ण० ।। ५९४ ॥ बहूनां साधारणं यदि ददाति तर्हि तत्र यथा प्राक् अनिसृष्टे दोषा उक्तास्तथैव द्रष्टव्याः । तथा चौर्येण भृतके-कर्मकरे स्नुषादौ वा ददति 'ग्रहणादयो ' ग्रहणबन्धनताडनादयो दोषा द्र xxx xxx हि स्वयं प्रायमिति, तर्हि ग्लानाद्यपहणे तस्य कल्पत इति ॥ ५९५ ॥ सम्प्रत्याभोगानाभोगदायकस्वरूपमाह अणुकंपा पडिणीयद्वया ।। ५९६ ।। सदैवते महानुभावा यतयोऽन्तप्रान्तमशनमश्नन्ति तस्मात्करोम्येतेषां शरिरोपष्टम्भाय घृतपुरादीनीत्येवमनुकंपया यदि वा मयैतेषामनेषणीयाग्रहणनियमभक्तो भव्य इति प्रत्यनीकतया जानानोऽपि तानाधाकर्मादिरूपानेषणादो. षान् करोति, द्वितीयस्तु करोति अज्ञानतो अशठभावः ॥ ५९६ ॥ तदेवं व्याख्यातानि चत्वारिंशदपि बालादिद्वाराणि, संप्रति यदुक्तं" एएसि दायगाणं गहणं केसिंचि होइ भइयवं" इत्यादि, तद्व्याचिख्यासुः प्रथमतो बालमाश्रित्य भजनामाह भिक्खामित्वे अवियालणा०॥ ५९७ ॥ मातुः परोक्षे भिक्षामात्रे बालेन दीयमाने यदि वा पार्श्ववर्तिना मात्रादिना सन्दिष्टे का सति तेन बालेन दीयमानेऽविचारणा कल्पते, इदं न वेति विचारणाया अभावः, किन्तु प्रहणं भिक्षाया भवति, अतिबहुके तु बालेन d,१७०॥ Jain Education in For Private Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396