Book Title: Pind Niryukti
Author(s): Manekyashekharsuri, Kanchanvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Education Int
निर्युक्तिपतं कथमपि महापुण्यप्राग्भारेण दृष्ट्वा मा विलंबध्वं किं तर्हि ! यथोक्तप्रत्रज्यापालनारोहणेन नरगतिमारुह्य निवृतिपुरं गच्छत, न तत्रानन्तज्ञानदर्शनसुखवीर्यसंयुक्ता निराकुलाः सदैव तिष्ठथेति ॥
श्रीलाटदेश तिलक श्रीवटपद्रक - विशालपुरगतयोः । श्रीभिल्लवालघर्कटया (जा) तिव्योमेन्दुनिर्मलयोः ॥ १ ॥ श्रेष्ठवर वर्द्धमान - शमित्यो (!) स्तीर्थ नाथमुनिनमने । रतयोर्वसन्तनाम्ना जन्मोत्पत्तिं समाश्रित्य ॥ २ ॥ प्रवज्याग्रहणं पुनराश्रित्य विशुद्धसाधुगुणधाम्नां । वसतिविहारि - श्रीचन्द्रगच्छगगनेन्दुकल्पानां ॥ ३ ॥ सत्यापित नाम्नां श्रीसमुद्रघोषाभिधानसूरीणां । वीर इति प्राप्तापरनाम्नाऽत्यन्तं विमुग्धधियां ॥ ४ ॥ दीक्षायाः परिपालनमाश्रित्य तु सकलवसतितिलकानां । श्री सरवालकगच्छस्थ - वाचनाचार्यवर्याणां ॥ ५ ॥ अधीश्वरगणिनाम्नां सुतेन संप्राप्तवीरगणिनाम्ना । एकादशशतोपरि षष्टिकसंवत्सरे ॥ ६ ॥ वटपद्रग्रामे कर्करोणिकापार्श्ववर्त्तिनि प्रवरे । बोधानुसारतोऽकारि पिण्डनिर्युक्तिवृत्तिरियं ॥ ७ ॥ तेषां सेवांवेश्वर (!) गणिनां श्रीमन्महेन्द्रसूरिवराः । सकलागमपारगताः धर्म्म कथाकथन निरताश्च ॥ ८ ॥ अन्येऽपि देवचन्द्राभिधानगणिनः प्रधानमन्त्रज्ञा । उचितज्ञा अभ्यर्थितशूराः संग्रहपराश्च दृढं ॥ ९ ॥ अन्येऽपि देवचन्द्राभिधाख्यगणिनः क्रियापराः सरलाः । क्षान्त्यादिधर्म्मनिचया परहितरतयो विनीताश्च ॥ १० ॥ एते त्रयोsपि शिष्याः, सकलजनानन्ददायिनोऽत्यर्थं । देवानामपि वन्द्या नन्दन्तु चिरंतना वळये ॥ ११ ॥ येषां भक्तप्रदानमुख्योपष्टम्भप्रसादेन । निरन्तरां निराकुलताकारि मयैषा स्फुटा वृत्तिः ॥ १२ ॥
For Private & Personal Use Only
परि० ९ वीरगणि
कृतटीकायाः प्रशस्तिः ।
www.jainelibrary.org

Page Navigation
1 ... 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396