SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ Jain Education Int निर्युक्तिपतं कथमपि महापुण्यप्राग्भारेण दृष्ट्वा मा विलंबध्वं किं तर्हि ! यथोक्तप्रत्रज्यापालनारोहणेन नरगतिमारुह्य निवृतिपुरं गच्छत, न तत्रानन्तज्ञानदर्शनसुखवीर्यसंयुक्ता निराकुलाः सदैव तिष्ठथेति ॥ श्रीलाटदेश तिलक श्रीवटपद्रक - विशालपुरगतयोः । श्रीभिल्लवालघर्कटया (जा) तिव्योमेन्दुनिर्मलयोः ॥ १ ॥ श्रेष्ठवर वर्द्धमान - शमित्यो (!) स्तीर्थ नाथमुनिनमने । रतयोर्वसन्तनाम्ना जन्मोत्पत्तिं समाश्रित्य ॥ २ ॥ प्रवज्याग्रहणं पुनराश्रित्य विशुद्धसाधुगुणधाम्नां । वसतिविहारि - श्रीचन्द्रगच्छगगनेन्दुकल्पानां ॥ ३ ॥ सत्यापित नाम्नां श्रीसमुद्रघोषाभिधानसूरीणां । वीर इति प्राप्तापरनाम्नाऽत्यन्तं विमुग्धधियां ॥ ४ ॥ दीक्षायाः परिपालनमाश्रित्य तु सकलवसतितिलकानां । श्री सरवालकगच्छस्थ - वाचनाचार्यवर्याणां ॥ ५ ॥ अधीश्वरगणिनाम्नां सुतेन संप्राप्तवीरगणिनाम्ना । एकादशशतोपरि षष्टिकसंवत्सरे ॥ ६ ॥ वटपद्रग्रामे कर्करोणिकापार्श्ववर्त्तिनि प्रवरे । बोधानुसारतोऽकारि पिण्डनिर्युक्तिवृत्तिरियं ॥ ७ ॥ तेषां सेवांवेश्वर (!) गणिनां श्रीमन्महेन्द्रसूरिवराः । सकलागमपारगताः धर्म्म कथाकथन निरताश्च ॥ ८ ॥ अन्येऽपि देवचन्द्राभिधानगणिनः प्रधानमन्त्रज्ञा । उचितज्ञा अभ्यर्थितशूराः संग्रहपराश्च दृढं ॥ ९ ॥ अन्येऽपि देवचन्द्राभिधाख्यगणिनः क्रियापराः सरलाः । क्षान्त्यादिधर्म्मनिचया परहितरतयो विनीताश्च ॥ १० ॥ एते त्रयोsपि शिष्याः, सकलजनानन्ददायिनोऽत्यर्थं । देवानामपि वन्द्या नन्दन्तु चिरंतना वळये ॥ ११ ॥ येषां भक्तप्रदानमुख्योपष्टम्भप्रसादेन । निरन्तरां निराकुलताकारि मयैषा स्फुटा वृत्तिः ॥ १२ ॥ For Private & Personal Use Only परि० ९ वीरगणि कृतटीकायाः प्रशस्तिः । www.jainelibrary.org
SR No.600106
Book TitlePind Niryukti
Original Sutra AuthorN/A
AuthorManekyashekharsuri, Kanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1968
Total Pages396
LanguageSanskrit
ClassificationManuscript & agam_pindniryukti
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy